अध्याय २.१६, श्लोक २८–३५
योग वशिष्ठ २.१६.२८–३५ (निरंतर प्रयास द्वारा सद्गुणों का विकास करना) श्रीवसिष्ठ उवाच । परं पौरुषमाश्रित्य जित्वा चित्तमतङ्गजम् । यावदेको गुणो नान्तस्तावन्नास्त्युत्तमा गतिः ॥ २८ ॥ पौरुषेण प्रयत्नेन दन्तैर्दन्तान्विचूर्णयेत् । यावन्नाभिनिविष्टं ते मनो राम गुणार्जने ॥ २९ ॥ देवो भवाथ यक्षो वा पुरुषः पादपोऽथ वा । तावत्तव महाबाहो नोपायोऽस्तीह कश्चन ॥ ३० ॥ एकस्मिन्नेव फलदे गुणे बलमुपागते। क्षीयन्ते सर्व एवाशु दोषा विवशचेतसः ॥ ३१ ॥ गुणे विवृद्धे वर्धन्ते गुणा दोषजयप्रदाः। दोषे विवृद्धे वर्धन्ते दोषा गुणविनाशनाः ॥ ३२ ॥ मनोमोहवने ह्यस्मिन्वेगिनी वासनासरित् । शुभाशुभबृहत्कूला नित्यं वहति जन्तुषु ॥ ३३ ॥ सा हि स्वेन प्रयत्नेन यस्मिन्नेव निपात्यते । कूले तेनैव वहति यथेच्छसि तथा कुरु ॥ ३४ ॥ पुरुषयत्नजवेन मनोवने शुभतटानुगतां क्रमशः कुरु । वरमते निजभावमहानदीमहह तेन मनागपि नोह्यसे ॥ ३५ ॥ महर्षि वशिष्ठ ने कहा: २.१६.२८: परम पुरुषार्थ पर आश्रित होकर और अनियंत्रित हाथी के समान मन पर विजय प्राप्त करके, जब तक एक भी गुण की पूर्ण सिद्धि न हो जाए, तब तक मनुष्य परमपद को प्राप्त नहीं कर सकता। २.१६.२९: न...