अध्याय ३.९५, श्लोक २८–३८
योगवशिष्ट ३.९५.२८–३८ (ये श्लोक सिखाते हैं कि मन और कर्म आरम्भ से ही अभिन्न हैं ) श्रीवसिष्ठ उवाच। साधु राघव पृष्टोऽस्मि त्वया प्रश्नमिमं शुभम्। शृणु वक्ष्यामि ते येन भृशं ज्ञानोदयो भवेत् ॥ २८॥ मानसोऽयं समुन्मेषः कलाकलनरूपतः। एतत्तत्कर्मणां बीजं फलमस्यैव विद्यते ॥ २९॥ यदैव हि मनस्तत्त्वमुत्थितं ब्रह्मणः पदात्। तदैव कर्म जन्तूनां जीवो देहतया स्थितः ॥ ३०॥ कुसुमाशययोर्भेदो न यथा भिन्नयोरिह। तथैव कर्ममनसोर्भेदो नास्त्यविभिन्नयोः ॥ ३१॥ क्रियास्पन्दो जगत्यस्मिन्कर्मेति कथितो बुधैः। पूर्वं तस्य मनो देहं कर्मातश्चित्तमेव हि ॥ ३२॥ न स शैलो न तद्व्योम न सोऽब्धिश्च न विष्टपम्। अस्ति यत्र फलं नास्ति कृतानामात्मकर्मणाम् ॥ ३३॥ ऐहिकं प्राक्तनं वापि कर्म यद्रचितं स्फुरत्। पौरुषोऽसौ परो यत्नो न कदाचन निष्फलः ॥ ३४॥ कृष्णतासंक्षये यद्वत्क्षीयते कज्जलं स्वयम्। स्पन्दात्मकर्मविगमे तद्वत्प्रक्षीयते मनः ॥ ३५॥ कर्मनाशे मनोनाशो मनोनाशो ह्यकर्मता। मुक्तस्यैव भवत्येव नामुक्तस्य कदाचन ॥ ३६॥ वह्न्यौष्णयोरिव सदा श्लिष्टयोश्चित्तकर्मणोः। द्वयोरेकतराभावे द्वयमेव विलीयते ॥ ३७॥ चित्तं सदा स्पन्दविलासमेत्य स्पन्दैकरूपं न...