अध्याय १.२१, श्लोक १–१०
योग वशिष्ठ १.२१.१–१० (स्त्रियों के सौंदर्य का झूठा आकर्षण) श्रीराम उवाच । मांसपाञ्चालिकायास्तु यन्त्रलोलेऽङ्गपञ्जरे । स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियाः किमिव शोभनं ॥ १ ॥ त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचनम् । समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥ २ ॥ इतः केशा इतो रक्तमितीयं प्रमदातनुः । किमेतया निन्दितया करोति विपुलाशयः ॥ ३ ॥ वासोविलेपनैर्यानि लालितानि पुनः पुनः। तान्यङ्गान्यङ्ग लुण्ठन्ति क्रव्यादाः सर्वदेहिनाम् ॥ ४ ॥ मेरुश्रृंगतटोल्लासि गंगाजलरयोपमा। दृष्टा यस्मिन्स्तने मुक्ताहारस्योल्लासशालिता ॥ ५ ॥ श्मशानेषु दिगन्तेषु स एव ललनास्तनः । श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥ ६ ॥ रक्तमांसास्थिदिग्धानि करभस्य यथा वने । तथैवाङ्गानि कामिन्यास्तां प्रत्यपि हि को ग्रहः ॥ ७ ॥ आपातरमणीयत्वं कल्पते केवलं स्त्रियाः। मन्ये तदपि नास्त्यत्र मुने मोहैककारणम् ॥ ८ ॥ विपुलोल्लासदायिन्या मदमन्मथपूर्वकम्। को विशेषो विकारिण्या मदिरायाः स्त्रियास्तथा ॥ ९ ॥ ललनालानसंलीना मुने मानवदन्तिनः। प्रबोधं नाधिगच्छन्ति दृढैरपि शमाङ्कुशैः ॥ १० ॥ श्रीराम ने कहा: १ . "हे ऋषिवर, स्त्री के शरीर में ...