अध्याय ३.९४, श्लोक १–१४
योगवशिष्ट ३.९४.१–१४ (सृष्टि में गुणों का प्रभाव ) श्रीवसिष्ठ उवाच। उत्तमाधममध्यानां पदार्थानामितस्ततः। उत्पत्तीनां विभागोऽयं श्रृणु वक्ष्यामि राघव ॥ १॥ इदं प्रथमतोत्पन्नो योऽस्मिन्नेव हि जन्मनि। इदंप्रथमतानाम्नी शुभाभ्याससमुद्भवा ॥ २॥ शुभलोकाश्रया सा च शुभकार्यानुबन्धिनी। सा चेद्विचित्रसंसारवासनाव्यवहारिणी ॥ ३॥ भवैः कतिपयैर्मोक्षमित्युक्ता गुणपीवरी। तादृक्फलप्रदानैककार्याकार्यानुमानदा ॥ ४॥ तेन राम ससत्त्वेति प्रोच्यते सा कृतात्मभिः। अथ चेच्चित्रसंसारवासना व्यवहारिणी ॥ ५॥ अत्यन्तकलुषा जन्मसहस्रैर्ज्ञानभागिनी। तादृक्फलप्रदानैकधर्माधर्मानुमानदा ॥ ६॥ असावधमसत्त्वेति तेन साधुभिरुच्यते। सैव संख्यातिगानन्तजन्मवृन्दादनन्तरम् ॥ ७॥ संदिग्धमोक्षा यदि तत्प्रोच्यतेऽत्यन्ततामसी। अनद्यतनजन्मा तु जातिस्तादृशकारिणी ॥ ८॥ योत्पत्तिर्मध्यमा पुंसो राम द्वित्रिभवान्तरा । तादृक्कार्या तु सा लोके राजसी राजसत्तम ॥ ९॥ अविप्रकृष्टजन्मापि सोच्यते कृतबुद्धिभिः। सा हि तन्मृतिमात्रेण मोक्षयोग्या मुमुक्षुभिः ॥ १०॥ तादृक्कार्यानुमानेन प्रोक्ता राजससात्त्विकी। सैव चेदितरैरल्पैर्जन्मभिर्मोक्ष भागिनी ॥ ११॥ तत्तादृशी हि स...