अध्याय ३.११४, श्लोक ११–२१
योगवशिष्ट ३.११४.११–२१ (आत्मा के सर्वोच्च अद्वैत स्वरूप का प्रतिपादन) श्रीराम उवाच। यावत्किंचिदिदं दृश्यं साविद्या क्षीयते च सा। आत्मभावनया ब्रह्मन्नात्मासौ कीदृशः स्मृतः ॥ ११॥ श्रीवसिष्ठ उवाच। चेत्यानुपातरहितं सामान्येन च सर्वगम्। यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः ॥ १२॥ आब्रह्म स्तम्बपर्यन्तं तृणादि यदिदं जगत्। तत्सर्वं सर्वदात्मैव नाविद्या विद्यतेऽनघ ॥ १३॥ सर्वं च खल्विदं ब्रह्म नित्यं चिद्धनमक्षतम्। कल्पनान्या मनोनाम्नी विद्यते नहि काचन ॥ १४॥ न जायते न म्रियते किंचिदत्र जगत्त्रये। न च भावविकाराणां सत्ता क्वचन विद्यते ॥ १५॥ केवलं केवलाभासं सर्वसामान्यमक्षतम्। चेत्यानुपातरहितं चिन्मात्रमिह विद्यते ॥ १६॥ तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे। शान्ते समसमाभोगे निर्विकारोदितात्मनि ॥ १७॥ यैषा स्वभावातिगतं स्वयं संकल्प्य धावति। चिच्चैत्यं स्वयमाम्लाना सा म्लाना तन्मनः स्मृतम् ॥ १८॥ एतस्मात्सर्वगाद्देवात्सर्वशक्तेर्महात्मनः। विभागकलनाशक्तिर्लहरीवोत्थिताम्भसः ॥ १९॥ एकस्मिन्वितते शान्ते या न किंचन विद्यते। संकल्पमात्रेण गता सा सिद्धिं परमात्मनि ॥ २०॥ अतः संकल्पसिद्धेयं संकल्पेन...