Posts

Showing posts with the label बंधन

अध्याय ३.११४, श्लोक २२–३०

योगवशिष्ट ३.११४.२२–३० (समस्त बन्धन का मूल मन की अपने और जगत् के विषय में दृढ़ अवधारणाएँ हैं) श्रीवसिष्ठ उवाच। पौरुषोद्योगसिद्धेन भोगाशा रूपतां गता। असंकल्पनमात्रेण साविद्या प्रविलीयते ॥ २२॥ नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः। सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः ॥ २३॥ संकल्पः परमो बन्धस्त्वसंकल्पो विमुक्तता। संकल्पं संविजित्यान्तर्यथेच्छसि तथा कुरु ॥ २४॥ दृढा न याम्बरेऽत्रास्ति नलिनी हेमपङ्कजा। लोलवैदूर्यमधुपा सुगन्धितदिगन्तरा ॥ २५॥ उद्दण्डैः प्रकटाभोगैर्मृणालभुजमण्डलैः। विहसन्ती प्रकाशस्य शशिनो रश्मिमण्डलम् ॥ २६॥ विकल्पजालिकेवेत्थमसत्येवापि सत्समा। मनःस्वार्थविलासार्थं यथा बालेन कल्प्यते ॥ २७॥ तथैवेयमविद्येह भवबन्धनबन्धनी। चपला न सुखायैव बालेन कलिता दृढा ॥ २८॥ कृशोऽतिदुःखी बद्धोऽहं हस्तपादादिमानहम्। इति भावानुरूपेण व्यवहारेण बध्यते ॥ २9 ॥ नाहं दुःखी न मे देहो बन्धः कस्यात्मनः स्थितः। इति भावानुरूपेण व्यवहारेण मुच्यते ॥ ३०॥ महर्षि वसिष्ठ ने कहा: ३.११४.२२–३० > पुरुषार्थ के सफल प्रयास से जो भोगों की आशा रूप धारण कर चुकी है, वह केवल संकल्प न करने मात्र से पूर्णतः विलीन ...

अध्याय ३.१०२, श्लोक २१–३१

योगवशिष्ट ३.१०२.२१–३१ (शरीर नाशवान है जबकि आत्मा शाश्वत और अपरिवर्तनीय है) श्रीवसिष्ठ उवाच। यः कुण्डवदरन्यायो यो घटाकाशयोः क्रमः। स्थितिर्देहात्मनोः सैव सविनाशाविनाशयोः ॥ २१॥ बदरं हस्तमायाति यथा स्फुटति कुण्डके। आत्मा गगनमायाति तथा चलति देहके ॥ २२॥ कुम्भे गच्छत्यकुम्भत्वं कुम्भाकाशो यथाम्बरे। तिष्ठत्येवमयं क्षीणे देहे देही निरामयः ॥ २३॥ मनोदेहो हि जन्तूनां देशकालतिरोहितः। मुहुर्मृतिपटाच्छन्नः शठे किं परिदेवना ॥ २४॥ देशकालतिरोधाने मूढोऽपि मरणे नरः। किं बिभेति महाबाहो नेह पश्यति कश्चन ॥ २५॥ अतस्त्वं वासनां राम मिथ्यैवाहमिति स्थिताम्। त्यज पक्षीश्वरो व्योमगमनोत्क इवाण्डकम् ॥ २६॥ एषा हि मानसी शक्तिरिष्टानिष्टनिबन्धनी। अनयैव मुधा भ्रान्त्या स्वप्नवत्परिकल्पना ॥ २७॥ अविद्यैषा दुरन्तैषा दुःखायैषा विवर्धते।  अपरिज्ञायमानैषा तनोतीदमसन्मयम् ॥ २८॥ एषा तुच्छवदाकाशं तुषारमलिनं यथा। परिपश्यति विभ्रान्ता स्वरूपस्य स्वभावतः ॥ २९॥ असदेवेदमारम्भमन्थरं सदिवोत्थितम्।  कल्पितं जगदाभोगि दीर्घस्वप्न इवैतया ॥ ३०॥ भावनामात्र एवास्याः स्वरूपं कर्तृतां गतम्। जगन्नामाविलं चक्षुर्व्योम्नि बिम्बरुचामिव ॥ ३...

अध्याय ३.१०२, श्लोक ११–२०

योगवशिष्ट ३.१०२.११–२० (सच्ची आत्मा शरीर को प्रभावित करने वाले सभी दुखों और परिवर्तनों से पूरी तरह मुक्त है) श्रीवसिष्ठ उवाच। अनार्तोऽप्यार्तिमान्भाति च्छिन्नेऽङ्गे किंच ताम्यति। भेदाभेदविकारार्तिः काचिन्नात्मनि विद्यते ॥ ११॥ देहे नष्टे क्षते क्षीणे कात्मनः क्षतिरागता। भस्त्रायां परिदग्धायां भस्त्रापूरो न नश्यति ॥ १२॥ देहः पततु वोदेतु का नः क्षतिरुपस्थिता। को नष्टः प्रक्षते पुष्पे आमोदो व्योमसंश्रयः ॥ १३॥ आपतन्तु वपुःपद्मे सुखदुःखहिमश्रियः। आकाशोडुयनालीनां का नः क्षतिरुपस्थिता ॥ १४॥ देहः पततु वोदेतु यातु वा गगनान्तरम्। तद्विलक्षणरूपस्य कासौ भवति मे क्षतिः ॥ १५॥ यथा पयोदमरुतोर्यथा षट्पदपद्मयोः। तथा राघव संबन्धस्त्वच्छरीरत्वदात्मनोः ॥ १६॥ मनो राम शरीरं हि जगतः सकलस्य च। आद्या शक्तिश्चिदध्यात्मा न नश्यति कदाचन ॥ १७॥ योऽसावात्मा महाप्राज्ञ न नश्यति न गच्छति। न नश्यति कदाचिच्च किं मुधा परितप्यसे ॥ १८॥ विशीर्णेऽभ्रे यथा वातः शुष्केऽब्जे षट्पदो यथा। यात्यनन्तपदं व्योम तथात्मा देहसंक्षये ॥ १९॥ संसारेऽस्मिन्विहरतो मनोऽपि हि न नश्यति। ज्ञानाग्निना विना जन्तोरात्मनाशे तु का कथा ॥ २०॥ महर्षि वशिष्ठ...

अध्याय ३.१०२, श्लोक १–१०

योगवशिष्ट ३.१०२.१–१० (मोह केवल अपनी कल्पना से उत्पन्न होता है, वास्तविकता से नहीं) श्रीवसिष्ठ उवाच। स्वसंकल्पवशान्मूढो मोहमेति न पण्डितः। अक्षये क्षयसंकल्पान्मुह्यते शिशुरेव हि ॥ १॥ श्रीराम उवाच। कोऽसौ संकल्पितः केन क्षयो ब्रह्मविदां वर। असतैव महामोहं येनादात्तत्सदैव हि ॥ २॥ श्रीवसिष्ठ उवाच। असता भूतसंघेन क्षयोऽहंकारनामधृक्। वेतालः शिशुनेवेह मिथ्यैव परिकल्पितः ॥ ३॥ एकस्मिन्नेव सर्वस्मिन्स्थिते परमवस्तुनि। कुतः कोऽयमहं नाम कथं नाम किलोदितः ॥ ४॥ वस्तुतो नास्त्यहंकारः परमात्मन्यभेदिनि। असम्यग्दर्शनान्मार्गीसरित्तीव्रातपे यथा ॥ ५॥ मनोमणिमहारम्भः संसार इति लक्ष्यते। आत्मनात्मानमाश्रित्य स्फुरत्यन्तर्यथाम्भसा ॥ ६॥ असम्यग्दर्शनं तेन त्यज राम निराश्रयम्। साश्रयं सत्यमानन्दि सम्यग्दर्शनमाश्रय ॥ ७॥ धिया विचारधर्मिण्या मोहसंरम्भहीनया। विचारयाधुना सत्यमसत्यं संपरित्यज ॥ ८॥ अबद्धो बद्ध इत्युक्त्वा किं शोचसि मुधैव हि। अनन्तस्यात्मतत्त्वस्य किं कथं केन बध्यते ॥ ९॥ नानाऽनानात्वकलना त्वविभिन्नमहात्मनि। सर्वस्मिन्ब्रह्मतत्त्वेऽस्मिन्किं बद्धं किं विमुच्यते ॥ १०॥ महर्षि वसिष्ठ ने कहा:  ३.१०२.१ > म...

अध्याय ३.१०१, श्लोक ३३–३९

योगवशिष्ट ३.१०१.३३–३९ (हम जो संसार अनुभव करते हैं वह कोई ठोस, स्वतंत्र सत्य नहीं है, बल्कि मन की अपनी धारणाओं और कल्पनाओं से बना हुआ बदलता दृश्य है) श्रीवसिष्ठ उवाच। विकल्पजालकैवेयं प्रतिभासात्मिकानघ। बन्धमोक्षादिकलनारूपेण परिजृम्भते ॥ ३३॥ संकल्पमात्रादितरद्विद्यते नेह किंचन। संकल्पवशतः किंचिन्न किंचित्किंचिदेव वा ॥ ३४॥ द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः। संकल्पकचितं सर्वमेवं स्वप्नवदात्मनः ॥ ३५॥ राजपुत्रास्त्रयो नद्यो भविष्यन्नगरे यथा। यथा संकल्परचना तथेयं हि जगत्स्थितिः ॥ ३६॥ संकल्पमात्रमभितः परिस्फुरति चञ्चलः। पयोमात्रात्मकोऽम्भोधिरम्भसीवात्मनात्मनि ॥ ३७॥ संकल्पमात्रं प्रथममुत्थितं परमात्मनः। तदिदं स्फारतां यातं व्यापारैर्दिवसं यथा ॥ ३८॥ संकल्पजालकलनैव जगत्समग्रं संकल्पमेव ननु विद्धि विलासचेत्यम्। संकल्पमात्रमलमुत्सृज निर्विकल्पमाश्रित्य निश्चयमवाप्नुहि राम शान्तिम् ॥ ३९॥ महर्षि वशिष्ठ आगे बोले: ३.१०१.३३–३९ > हे निष्पाप, यह सारा दृश्य केवल मानसिक कल्पनाओं का जाल है। यह बंधन और मुक्ति जैसी धारणाओं के रूप में फैलता है। > केवल संकल्प मात्र के अतिरिक्त यहाँ और कुछ भी नहीं ह...

अध्याय ३.१०१ श्लोक २६–३२

योगवशिष्ट ३.१०१.२६–३२ (ये श्लोक एक सरल किंतु गहन शिक्षा देते हैं) श्रीवसिष्ठ उवाच। निमन्त्रितास्त्रयस्तैस्तु ब्राह्मणा राजसूनुभिः। द्वौ निर्देहावथैकस्य मुखमेव न विद्यते ॥ २६॥ निर्मुखेनान्धसस्तत्र भुक्तं द्रोणशतं सुत। विप्रभुक्तावशेषं तु भुक्तमन्धो नृपात्मजैः ॥ २७॥ त्रिभिस्ते राजपुत्राश्च परां निर्वृतिमागताः। भविष्यन्नगरे तस्मिन् राजपुत्रास्त्रयो हि ते। सुखमद्य स्थिताः पुत्र मृगयाव्यवहारिणः ॥ २८॥ आख्यायिकैषा कथिता मया रम्या तवानघ। एतां हृदि कुरु प्राज्ञ विदग्धस्त्वं भविष्यसि ॥ २९॥ धात्र्येति कथिता राम बालकाख्यायिका शुभा। तुष्टिं जगाम बालश्च शुभाख्यायिकयानया ॥ ३०॥ एषा हि कथिता राम चित्ताख्यानकथां प्रति। बालकाख्यायिका तुभ्यं मया कमललोचन ॥ ३१॥ इयं संसाररचना स्थितिमेवमुपागता। बालकाख्यायिकेवोग्रैः संकल्पैर्दृढकल्पितैः ॥ ३२॥ महर्षि वसिष्ठ बोले: ३.१०१.२६–३२ > तीन राजकुमारों ने तीन ब्राह्मणों को निमंत्रित किया। उनमें से दो के शरीर ही नहीं थे और तीसरे के मुख नहीं था। > मुखहीन ने वहाँ सौ द्रोण भोजन खा लिया, हे पुत्र। ब्राह्मणों के खाने के बाद जो शेष बचा उसे अंधे राजपुत्रों ने खाया। > वे ...

अध्याय ३.१०१, श्लोक १~२५

योगवशिष्ट ३.१०१.१~२५ (मन से संबंधित पांच शिक्षाएँ)   श्रीराम उवाच। किमुच्यते मुनिश्रेष्ठ बालकाख्यायिकाक्रमः। क्रमेण कथयैतन्मे मनोवर्णनकारणम् ॥ १॥ श्रीवसिष्ठ उवाच। कोऽपि मुग्धमतिर्बालो धात्रीं पृच्छति राघव। कांचिद्विनोदिनीं धात्रि वर्णयाख्यायिकामिति ॥ २॥ सा बालस्य विनोदाय धात्री तस्य महामते । आख्यायिकां कथयति प्रसन्नमधुराक्षरम् ॥ ३ ॥ क्वचित्सन्ति महात्मानो राजपुत्रास्त्रयः शुभाः । धार्मिकाः शौर्यमुदिता अत्यन्तासति पत्तने ॥ ४ ॥ विस्तीर्णे शून्यनगरे व्योम्नीव जलतारकाः । द्वौ न जातौ तथैकस्तु गर्भ एव न संस्थितः ॥ ५ ॥ अथात्युत्तमलाभार्थं कदाचित्समवायतः । विबन्धवः खिन्नमुखाः शोकोपहतचेतसः ॥ ६ ॥ (३.१०१.७–२०) ददृशुस्तत्र रम्याणि त्रीणि सद्भवनानि ते । मणिकाञ्चनगेहानि श्रृङ्गाणीव महागिरेः ॥ २१ ॥ अनिर्मिते द्वे सदने एकं निर्भित्ति तत्र वै । अभित्तिमन्दिरं चारु प्रविष्टास्ते नरास्त्रयः ॥ २२ ॥ संप्रविश्योपविश्याशु विहरन्तो वराननाः । प्रापुः स्थालीत्रयं तत्र तप्तकाञ्चनकल्पितम् ॥ २३ ॥ तत्र कर्परतां याते द्वे एका चूर्णतां गता । जगृहुश्चूर्णरूपां तां स्थालीं ते दीर्घबुद्धयः ॥ २४ ॥ द्रोणैर्नवनवत्या तै...

अध्याय ३.१००, श्लोक ३८–४३

योगवशिष्ट ३.१००.३८–४३ (मन ही सभी अनुभवों की जड़ है) श्रीराम उवाच। मनो यं निश्चयं याति तत्तद्भवति नान्यथा। तेन काल्पनिको नास्ति बन्धः कथमिह प्रभो ॥ ३८॥ श्रीवसिष्ठ उवाच। मिथ्या काल्पनिकीवेयं मूर्खाणां बन्धकल्पना। मिथ्यैवाभ्युदिता तेषामितरा मोक्षकल्पना ॥ ३९॥ एवमज्ञानकादेव बन्धमोक्षदृशोऽस्मृतेः। वस्तुतस्तु न बन्धोऽस्ति न मोक्षोऽस्तिमहामते ॥ ४०॥ कल्पनाया अवस्तुत्वं संप्रबुद्धमतिं प्रति। रज्ज्वहेरिव हे प्राज्ञ तत्त्वबुद्धमतिं प्रति ॥ ४१॥ बन्धमोक्षादिसंमोहो न प्राज्ञस्यास्ति कश्चन। संमोहबन्धमोक्षादि ह्यज्ञस्यैवास्ति राघव ॥ ४२॥ आदौ मनस्तदनु बन्धविमोक्षदृष्टी पश्चात्प्रपञ्चरचना भुवनाभिधाना। इत्यादिका स्थितिरियं हि गता प्रतिष्ठामाख्यायिका सुभग बालजनोदितेव ॥ ४३॥ श्री राम ने पूछा:  ३.१००.३८ > मन जिस दृढ़ निश्चय पर पहुँचता है, वही हो जाता है, अन्यथा नहीं। इसलिए हे प्रभु, यहाँ काल्पनिक बंधन कैसे नहीं है? महर्षि वशिष्ठ ने कहा:  ३.१००.३९–४३ > मूर्खों द्वारा की गई बंधन की यह कल्पना झूठी और काल्पनिक है। उसी तरह उनमें उत्पन्न हुई मुक्ति की दूसरी कल्पना भी झूठी ही है। > इस प्रकार अज्ञान ...