अध्याय २.१३, श्लोक १–१०
अध्याय २.१३: मन की शांति और स्थिरता योग वशिष्ठ २.१३.१–१० (ज्ञानी वे हैं जो द्वैत और अहंकार के बंधनों से मुक्त होकर, आत्मा के साथ सामंजस्य में रहते हैं) श्रीवसिष्ठ उवाच । एतां दृष्टिमवष्टभ्य दृष्टात्मानः सुबुद्धयः। विचरन्तीह संसारे महान्तोऽभ्युदिता इव ॥ १ ॥ न शोचन्ति न वाञ्छन्ति न याचन्ते शुभाशुभम् । सर्वमेव च कुर्वन्ति न कुर्वन्तीह किंचन ॥ २ ॥ स्वच्छमेवावतिष्ठन्ते स्वच्छं कुर्वन्ति यान्ति हि । हेयोपादेयतापक्षरहिताः स्वात्मनि स्थिताः ॥ ३ ॥ आयान्ति च न चायान्ति प्रयान्ति च न यान्ति च । कुर्वन्त्यपि न कुर्वन्ति न वदन्ति वदन्ति च ॥ ४ ॥ ये केचन समारम्भा याश्च काश्चन दृष्टयः । हेयोपादेयतस्तास्ताः क्षीयन्तेऽधिगते पदे ॥ ५ ॥ परित्यक्तसमस्तेहं मनोमधुरवृत्तिमत्। सर्वतः सुखमभ्येति चन्द्रबिम्ब इव स्थितम् ॥ ६ ॥ अपि निर्मननारम्भमव्यस्ताखिलकौतुकम् । आत्मन्येव न मात्यन्तरिन्दाविव रसायनम् ॥ ७ ॥ न करोतीन्द्रजालानि नानुधावति वासनाम् । बालचापलमुत्सृज्य पूर्वमेव विराजते ॥ ८ ॥ एवंविधा हि वृत्तय आत्मतत्त्वावलोकनाल्लभ्यन्ते नान्यथा ॥ ९ ॥ तस्माद्विचारेणात्मैवान्वेष्टव्य उपासनीयो ज्ञातव्यो यावज्जीवं पुरुषेण नेतर...