Posts

अध्याय ३.२७, श्लोक ४३–५०

योग्वशिष्ठ ३.२७.४३–५० (आत्मा शाश्वत और शुद्ध चेतना है, जो किसी भी रूप से बंधी नहीं है, फिर भी शरीरों और इच्छाओं के साथ तादात्म्य के कारण बंधी हुई प्रतीत होती है) लीलोवाच । वर्षाण्यष्टौ सुराष्ट्रेषु देवि गोत्वं कृतं मया । मोहाद्दुर्जनदुष्टाज्ञबालगोपाललीलया ॥ ४३ ॥ विहंग्या वैरविन्यस्ता वागुरा विपिनावनौ । क्लेशेन महता च्छिन्ना अधमा वासना इव ॥ ४४॥ कर्णिकाक्रोडशय्यासु विश्रान्तमलिना सह । पद्मकुड्मलकोशेषु भुक्तकिंजल्कया रहः ॥ ४५॥ भ्रान्तमुत्तुङ्गशृङ्गासु हरिण्या हारिनेत्रया । वनस्थलीषु रम्यासु किराताहतमर्मया ॥ ४६ ॥ दृष्टं नष्टासु दिक्ष्वब्धिकल्लोलैरुह्यमानया । मत्स्याम्बुकच्छपाच्छोडे मोघमाननताडनम् ॥ ४७॥ पीतं चर्मण्वतीतीरे गायन्त्या मधुरस्वरम् । पुलिन्द्या सुरतान्तेषु नालिकेररसासवम् ॥ ४८॥ सारसीसरसालिन्या सीत्कारमधुरस्वरम् । सारसः सुरतैः स्वैरं सामन्तश्चारुरञ्जितः ॥ ४९ ॥ तालीतमालकुञ्जेषु तरलानननेत्रया। क्षीबप्रेक्षणविक्षोभैः कृतं कान्तावलोकनम् ॥ ५० ॥ रानी लीला आगे बोलीं: ३.२७.४३ आठ वर्ष सुराष्ट्र देश में, हे देवी, मैंने मोह से दुर्जन दुष्ट अज्ञानी बाल गोपाल की लीला में गाय का रूप धारण किया था।...

अध्याय ३.२७, श्लोक २६–४२

योगवशिष्ट ३.२७.२६–४२ (सभी जीवनों को एक ही आत्मा के भीतर एक साथ चलने वाली मायावी छवियों के रूप में देखकर, साधक संसार से पार हो जाता है, और शुद्ध चेतना में अनंत स्वतंत्रता का साक्षात्कार कर लेता है) श्रीदेव्युवाच । अन्य एव हि संसारः सोऽन्यो ब्रह्माण्डमण्डपः । अन्या एव तता वत्से व्यवहारपरम्पराः ॥ २६ ॥ संसारमण्डलानीह तानि पार्श्वे स्थितान्यपि । दूरं योजनकोटीनां कोटयस्तेष्विहान्तरम् ॥ २७ ॥ आकाशमात्रमेतेषामिदं पश्य वपुः पुनः। मेरुमन्दरकोटीनां कोटयस्तेष्ववस्थिताः ॥ २८ ॥ परमाणौ परमाणौ सर्ववर्गानिरर्गलम् । महाचितेः स्फुरन्त्यर्करुचीव त्रसरेणवः ॥ २९ ॥ महारम्भगुरूण्येवमपि ब्रह्माण्डकानि हि। तुलया धानकामात्रमपि तानि भवन्ति नो ॥ ३० ॥ नानारत्नामलोद्द्योतो वनवद्भाति खे यथा । पृथ्व्यादिभूतरहिता जगच्चिद्भाति चिन्तया ॥ ३१ ॥ कचति ज्ञप्तिरेवेदं जगदित्यादि नात्मनि । नतु पृथ्व्यादि संपन्नं सर्गादावेव किंचन ॥ ३२ ॥ यथा तरङ्गः सरसि भूत्वा भूत्वा पुनर्भवेत् । विचित्राकारकालाङ्गदेशाज्ञप्तावलं तथा ॥ ३३ ॥ लीलोवाच । एवमेतज्जगन्मातर्मया स्मृतमिहाधुना । ममेदं राजसं जन्म न तमो न च सात्त्विकम् ॥ ३४ ॥ ब्रह्मणस्त्ववतीर्ण...

अध्याय ३.२७, श्लोक १३–२५

योगवशिष्ट ३.२७.१३–२५ (यह सारी दुनिया, जन्म, मृत्यु और अनुभव चेतना के ही "आकाश" में समाहित हैं, ठीक उसी तरह जैसे सरसों के दाने किसी बर्तन में भरे होते हैं) लीलोवाच । इहैव मन्दिराकाशे पतिर्विप्रो ममाभवत्। इहैव स मृतो भूत्वा संपन्नो वसुधाधिपः ॥ १३ ॥ इहैव तस्य संसारे तस्मिन्भूमण्डलान्तरे। राजधानीपुरे तस्मिन्पुरन्ध्र्यस्मि व्यवस्थिता ॥ १४ ॥ इहैवान्तःपुरे तस्मिन्स मृतो मम भूपतिः। इहैवान्तःपुराकाशे तस्मिन्नेव पुरे नृपः ॥ १५ ॥ संपन्नो वसुधापीठे नानाजनपदेश्वरः । सर्वार्जवजवीभाव इहैवैवं व्यवस्थितः ॥ १६ ॥ अस्मिन्नेव गृहाकाशे सर्वा ब्रह्माण्डभूमयः । स्थिताः समुद्गके मन्ये यथान्तः सर्षपोत्कराः ॥ १७ ॥ सदाऽदूरमहं मन्ये तद्भर्तुर्मम मण्डलम्। क्वचित्पार्श्वे स्थितमिह यथा पश्यामि तत्कुरु ॥ १८ ॥ श्रीदेव्युवाच । भूतलारुन्धतिसुते भर्तारस्तव संप्रति। त्रयो नामाथवाभूवन्बहवः शतसंमताः ॥ १९ ॥ नेदीयसां त्रयाणां तु द्विजस्ते भस्मतां गतः । राजा माल्यान्तरगतः संस्थितोऽन्तःपुरे शवः ॥ २० ॥ संसारमण्डले ह्यस्मिंस्तृतीयो वसुधाधिपः । महासंसारजलधिं पतितो भ्रममागतः ॥ २१ ॥ भोगकल्लोलकलनाविकलो मलचेतनः। जाड्यजर्जरचिद...

अध्याय ३.२७, श्लोक १–१२

योगवशिष्ट ३.२७.१–१२ (जब मन पूर्ण रूप से सत्य के साथ एकाकार हो जाता है, तो इच्छाएँ सहजता से प्रकट हो जाती हैं, क्योंकि वे चेतना के अद्वैत लीला का हिस्सा होती हैं) श्रीवसिष्ठ उवाच । तस्मिन् गिरितटे ग्रामे तस्य मण्डपकोटरे । अन्तर्धिमाश्वाययतुस्तत्रस्थे एव ते स्त्रियौ ॥ १ ॥ अस्माकं वनदेवीभ्यां प्रसादः कृत इत्यथ । शान्तदुःखे गृहजने स्वव्यापारपरे स्थिते ॥ २ ॥ मण्डपाकाशसंलीनां लीलामाह सरस्वती । व्योमरूपा व्योमरूपां स्मयात्तूष्णीमिव स्थिताम् ॥ ३ ॥ संकल्पस्वप्नयोर्येषां यत्र संकथनं मिथः। यथेहार्थक्रियां धत्ते तयोः सा संकथा तथा ॥ ४ ॥ पृथ्व्यादिनाडीप्राणादिऋतेऽप्यभ्युदिता तयोः । सा संकथनसंवित्तिः स्वप्नसंकल्पयोरिव ॥ ५ ॥ श्रीसरस्वत्युवाच । ज्ञेयं ज्ञातमशेषेण दृष्टादृष्टार्थसंविदः । ईदृशीयं ब्रह्मसत्ता किमन्यद्वद पृच्छसि ॥ ६ ॥ लीलोवाच । मृतस्य भर्तुर्जोवोऽसौ यत्र राज्यं करोति मे । तत्राहं किं न तद्दृष्टा दृष्टास्मीह सुतेन किम् ॥ ७ ॥ श्रीसरस्वत्युवाच । अभ्यासेन विना वत्से तदा ते द्वैतनिश्चयः । नूनमस्तंगतो नाभून्निःशेषं वरवर्णिनि ॥ ८ ॥ अद्वैतं यो न यातोऽसौ कथमद्वैतकर्मभिः। युज्यते तापसंस्थस्य च्छायाङ...

अध्याय ३.२६, श्लोक ४६–५७

योगवशिष्ट ३.२६.४६–५७ (चेतना ही एकमात्र वास्तविकता है — शुद्ध, सूक्ष्म और सर्वव्यापी। यह अपनी इच्छानुसार सब कुछ रचती है, ठीक वैसे ही जैसे स्वप्न के नगर या कल्पना के संसार) महर्षि वशिष्ठ उवाच। यथा पृथ्व्यादिना भातमपृथ्व्यादि भवेत्क्षणात् । स्वप्ने स्वप्नपरिज्ञानात्तथा जाग्रत्यपि स्फुटम् ॥ ४६ ॥ पृथ्व्यादि खतया बुद्धं खमित्येवानुभूयते । तथाहि क्षुब्धधातूनां कुड्येषु ख इवोद्यमः ॥ ४७॥ स्वप्ने नगरमुर्वीं वा शून्यं खातं च बुध्यते । स्वप्राङ्गना च कुरुते शून्याप्यर्थक्रियां नृणाम् ॥ ४८ ॥ खं पृथ्व्यादितया बुद्धं पृथ्व्यादि भवति क्षणात् । मूर्च्छायां परलोकोऽपि प्रत्यक्षमनुभूयते ॥ ४९ ॥ बालो व्योमैव वेतालं म्रियमाणोऽम्बरे वनम् । केशोण्ड्रकं खमन्यस्तु खमन्यो वेत्ति मौक्तिकम् ॥ ५० ॥ त्रस्तक्षीबार्धनिद्राश्च नौयानाश्च सदैव स्ये । वेतालवनवृक्षादि पश्यन्त्यनुभवन्ति च ॥ ५१॥ यथाभावितमेतेषां पदार्थानामतो वपुः । अभ्यासजनितं भाति नास्त्येकं परमार्थतः ॥ ५२॥ लीलया तु यथावस्तु बुद्ध्वा पृथ्व्यादिनास्तिता। आकाशमेव संवित्त्या भाति भ्रान्तितयोदितम् ॥ ५३ ॥ ब्रह्मात्मैकचिदाकाशमात्रबोधवतो मुनेः। पुत्रमित्रकलत्राणि कथ...

अध्याय ३.२६, श्लोक ३३–४५

योगवशिष्ट ३.२६.३३–४५ (सच्चा ज्ञान इस माया का नाश करता है, और स्वयं की नित्य-स्थित, अविकारी परम सत्ता का दर्शन कराता है) ज्येष्ठशर्मादय ऊचुः । निःशङ्कया गतश्रीका मूका विलुलिताशयाः । अन्धेन तमसा पूर्णा गृहा गहनतां गताः ॥ ३३ ॥ उद्यानपुष्पखण्डेभ्यो रुदद्भ्यो भ्रमरारवैः। पूतिगन्धो विनिर्याति स्वामोदापरनामकः ॥ ३४ ॥ चैत्रद्रुमविलासिन्यो विरसाः प्रतिवासरम् । लताः कृशा विलीयन्ते सकुचद्गुच्छलोचनाः ॥ ३५ ॥ प्रक्षेप्तुमम्बुधौ देहं प्रवृत्ता गन्तुमाकुलाः। कुल्याः कलकलालोलं दोलयन्त्यस्तनुं भुवि ॥ ३६ ॥ अशङ्कमशकापातस्पन्दमप्यतिचापलम् । कलयन्त्यः स्थिता वाप्यो निस्पन्दानन्दमात्मनि ॥ ३७ ॥ गायत्किन्नरगन्धर्वविद्याधरसुराङ्गनम् । नूनमद्य नभो जातमस्मत्ताताभ्यलंकृतम् ॥ ३८ ॥ तद्देव्यौ क्रियतां तावदस्माकं शोकनाशनम् । महतां दर्शनं नाम न कदाचन निष्फलम् ॥ ३९ ॥ इत्युक्तवन्तं सा पुत्रं मूर्ध्नि पस्पर्श पाणिना । पल्लवेनानता नम्रं मूलग्रन्थिमिवाब्जिनी ॥ ४० ॥ तस्याः स्पर्शेन तेनासौ दुःखदौर्भाग्यसंकटम् । जहौ प्रावृड्घनासङ्गाद्ग्रीष्मतापमिवाचलः ॥ ४१ ॥ सर्वो गृहजनः सोऽथ तयोर्देव्योर्विलोकनात् । लक्ष्मीवान्दुःखनिर्मुक्तो ब...

अध्याय ३.२६, श्लोक २२–३२

योगवशिष्ट ३.२६.२२–३२ (सच्ची शांति स्व: (आत्मा) में स्थित होने से आती है, जहाँ न तो कोई हानि है, न मृत्यु, न शोक—केवल अनंत आनंद है)   श्रीवशिष्ठजी उवाच:। ज्येष्ठशर्मादयस्ते ते देव्यौ प्रति यथाक्रमम् । निजं तद्दुःखमाचख्युर्दम्पतिव्यसनात्मकम् ॥ २२ ॥ ज्येष्ठशर्मादय ऊचुः । देव्यावभवतां स्निग्धाविह ब्राह्मणदम्पती । सर्वातिथी कुलकरौ स्तम्भाभूतौ द्विजस्थितेः ॥ २३ ॥ तावद्य गृहमुत्सृज्य सपुत्रपशुबान्धवम्। स्वर्गं गतौ नः पितरौ तेन शून्यं जगत्त्रयम् ॥ २४ ॥ पक्षिणो गृहमारुह्य विक्षिपन्तः प्रतिक्षणम् । देहं शून्ये मृतं भक्त्या शोचन्ति मधुरैः स्वरैः ॥ २५ ॥ गुहागुरुगुरारावप्रलापलपनाकुलः । सरित्स्थूलाश्रुधाराभिः परिरोदिति पर्वतः ॥ २६ ॥ निर्जराक्रन्दकारिण्यो मुक्ताम्बरपयोधराः । तप्तनिःश्वासविध्वस्ताः परं कार्श्यमिता दिशः ॥ २७ ॥ क्षतविक्षतसर्वाङ्गः करुणाक्रन्दकर्कशः। उपवासरतो ग्रामो दीनो मृतिपरः स्थितः ॥ २८ ॥ दिवसं प्रति वृक्षाणामवश्यायाश्रुबिन्दवः । गुच्छलोचनकोशेभ्यस्तापोष्णानि पतन्त्यधः ॥ २९ ॥ प्रशान्तजनसंचारा रथ्या क्षारविधूसरा । विधवाविगतानन्दा संशून्यहृदया स्थिता ॥ ३० ॥ कोकिलालिप्रलापिन्यो वृष्ट...