अध्याय ३.१३, श्लोक १८–२५
योग वाशिष्ठ ३.१३.१८–२५ (मुक्ति आत्मा को जानने से आती है कि वह कभी फँसी ही नहीं थी – उसने सिर्फ़ सपना देखा था कि वह शरीर के अंदर एक तारा है) श्रीवसिष्ठ उवाच । जीवाकाशस्त्विमं देहं यथा विन्दति तच्छ्रुणु । जीवाकाशः स्वमेवासौ तस्मिंस्तु परमेश्वरे ॥ १८ ॥ अणुतेजःकणोऽस्मीति स्वयं चेतति चिन्तया । यत्तदेवोच्छूनमिव भावयत्यात्मनाम्बरे ॥ १९ ॥ असदेव सदाकारं संकल्पेन्दुर्यथा न सन्। तमेव भावयन् द्रष्ट्रदृश्यरूपतया स्थितः ॥ २० ॥ एक एव द्वितामेति स्वप्ने स्वमृतिबोधवत् । किंचित्स्थौल्यमिवादत्ते ततस्तारकतां विदन् ॥ २१ ॥ यथाभावितमात्रार्थभाविताद्विश्वरूपतः । स एव स्वात्मा सततोप्ययं सोहमिति स्वयम् ॥ २२ ॥ चित्तात्प्रत्ययमाधत्ते स्वप्ने स्वामिव पान्थताम् । तारकाकारमाकारं भाविदेहाभिधं तथा ॥ २३ ॥ भावयत्येति तद्भावं चित्तं चेत्यार्थतामिव । परित्यज्यैव तद्बाह्यं ततस्तारककोटरे ॥ २४ ॥ अन्तर्भाति बहिष्ठोऽपि पर्वतो मुकुरे यथा । कूपसंस्थो यथा देहः समुद्गकगतं वचः ॥ २५ ॥ महारिषि वशिष्ठ आगे कहते हैं: ३.१३.१८ : अब सुनो, जीव-चेतना यह शरीर कैसे प्रवेश करती है। जीव-चेतना स्वयं परमेश्वर ही है। वही परमेश्वर शरीर के...