अध्याय ३.१, श्लोक ३६–४३
योग वशिष्ठ ३.१.३६–४३ ( मन की प्रवृत्ति द्वारा विश्व की मायावी सृष्टि का निरंतर चुनौतीपूर्ण निर्माण) श्रीवसिष्ठ उवाच । यदि वापि समाधाने निर्विकल्पे स्थितिं व्रजेत् । तदक्षयसुषुप्ताभं तन्मन्येतामलं पदम् ॥ ३६ ॥ प्राप्यते सति दृश्येऽस्मिन्न च किंनाम केनचित् । यत्र यत्र किलायाति चित्ततास्य जगद्भ्रमः ॥ ३७ ॥ द्रष्टाथ यदि पाषाणरूपतां भावयन्बलात् । किलास्ते तत्तदन्तेऽपि भूयोऽस्योदेति दृश्यता ॥ ३८ ॥ न च पाषाणतातुल्या निर्विकल्पसमाधयः । केषांचित्स्थितिमायान्ति सर्वैरित्यनुभूयते ॥ ३९ ॥ न च पाषाणतातुल्या रूढिं याताः समाधयः । भवन्त्यग्रपदं शान्तं चिद्रूपमजमक्षयम् ॥ ४० ॥ तस्माद्यदीदं सद्दृश्यं तन्न शाम्येत्कदाचन। शाम्येत्तपोजपध्यानैर्दृश्यमित्यज्ञकल्पना ॥ ४१ ॥ आलीनवल्लरीरूपं यथा पद्माक्षकोटरे । आस्ते कमलिनीबीजं तथा द्रष्टरि दृश्यधीः ॥ ४२ ॥ यथा रसः पदार्थेषु यथा तैलं तिलादिषु । कुसुमेषु यथाऽऽमोदस्तथा द्रष्टरि दृश्यधीः ॥ ४३ ॥ महर्षि वशिष्ठ ने कहा: ३.१.३६ : यदि कोई अविचल, संकल्प-विकल्प रहित समाधि की अवस्था प्राप्त करता है, वह अवस्था अक्षय, गहन निद्रा-सदृश स्थिति के समान है। इसे शुद्ध, निर्मल परम अव...