Posts

अध्याय ३.११४, श्लोक ७०–७७

योगवशिष्ट ३.११४.७०–७७ (आकाश में नगर बसाने और गिराने का पूरा नाटक स्वप्न में पहले से ही सुख-दुःख सहित अनुभव किया जा चुका है) श्रीवसिष्ठ उवाच। नभोनगरनिर्माणपातोत्पातन संभ्रमाः। स्वप्नादिष्वनुभूयन्ते विचित्राः सुखदुःखदाः ॥ ७०॥ संसारवासनाश्चेतो यदि नाम न पूरयेत्। तज्जाग्रत्स्वप्नसंरम्भाः किं नयेयुरिहापदम् ॥ ७१॥ दृश्यते रौरवा वीचिनरकानर्थशासना। मिथ्याज्ञाने गते वृद्धिं स्वप्नोपवनभूमिषु ॥ ७२॥ अनया वेधितं चेतो विसतन्तावपि क्षणात्। पश्यत्यखिलसंसारसागरानर्थविभ्रमम् ॥ ७३॥ अनयोपहते चित्ते राज्य एव हि संस्थिताः। तास्तादृश्यो जना यान्ति या न योग्याः श्वपाकिनः ॥ ७४॥ तस्माद्राम परित्यज्य वासनां भवबन्धनीम्। सर्वरागमयीं तिष्ठ नीरागः स्फटिको यथा ॥ ७५॥ तिष्ठतस्तव कार्येषु मास्तु रागेषु रञ्जना। स्फटिकस्येव चित्राणि प्रतिबिम्बानि गृह्णतः ॥ ७६॥ विदितकौतुकसङ्घसमिद्धया यदि करोषि सदैव सुशीलया। वरधिया गतप्राकृतिकक्रियस्तदसि केन सहानुपमीयसे ॥ ७७॥ महर्षि वशिष्ठ आगे बोले: ३.११४.७०–७७ > आकाश में नगरों के निर्माण और विध्वंस की उलझनें स्वप्न आदि में अनुभव की जाती हैं; वे विचित्र होती हैं और सुख-दुःख देने वाली होती...

अध्याय ३.११४, श्लोक ५८–६९

योगवशिष्ट ३.११४.५८–६९ (आकाश, अंतरिक्ष, समुद्र, पृथ्वी और नदियों का पूरा दृश्य जगत् अज्ञानी के लिए केवल अविद्या है) श्रीवसिष्ठ उवाच। खाद्व्यब्ध्युर्वीनदी सेयं याऽविद्याऽज्ञस्य राघव। नाविद्या ज्ञस्य तद्ब्रह्म स्वमहिम्ना व्यवस्थितम् ॥ ५८॥ रज्जुसर्पविकल्पौ द्वावक्षेनैवोपकल्पितौ। ज्ञेन त्वेकैव निर्णीता ब्रह्मदृष्टिरकृत्रिमा ॥ ५९॥ मा भवाज्ञो भव प्राज्ञो जहि संसारवासनाम्। अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ॥ ६०॥ कस्तवायं जडो मूको देहो भवति राघव। यदर्थं सुखदुःखाभ्यामवशः परिभूयसे ॥ ६१॥ यथा हि काष्ठजतुनोर्यथा बदरकुण्डयोः। श्लिष्टयोरपि नैकत्वं देहदेहवतोस्तथा ॥ ६२॥ भस्त्रादाहे यथा दाहो न भस्त्रान्तरवर्तिनः। पवनस्य तथा देहनाशे नात्मा न नश्यति ॥ ६३॥ दुःखितोऽहं सुखाढ्योऽहमिति भ्रान्ति रघूद्वह। मृगतृष्णोपमां बुद्ध्वा त्यज सत्यं समाश्रय ॥ ६४॥ अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम्। यदसत्यमविद्याख्यं तन्नूनं स्मृतिमागतम् ॥ ६५॥ प्रसरं त्वमविद्याया मा प्रयच्छ रघूद्वह। अनयोपहिते चित्ते दुष्पारेह कदर्थना ॥ ६६॥ मिथ्यैवानर्थकारिण्या मनोमननपीनया। अनया दुःखदायिन्या महामोहफलान्तया ॥ ६७॥ चन्द्रबिम्बे स...

अध्याय ३.११४, श्लोक ४९–५७

योगवशिष्ट  ३.११४.४९–५७ (दृश्यमान जगत् आदि में भी वास्तव में नहीं था और अब भी नहीं है। जो कुछ प्रतीत होता है वह केवल एक शान्त, निर्दोष ब्रह्म ही है) श्रीवसिष्ठ उवाच। यदादावेव नास्तीदं तदद्यापि न विद्यते। यदिदं भाति तद्ब्रह्म शान्तमेकमनिन्दितम् ॥ ४९॥ मननीयमतो नान्यत्कदा कस्य कथं कुतः। निर्विकारमनाद्यन्तमास्यतामपयन्त्रणम् ॥ ५०॥ परं पौरुषमाश्रित्य यत्नात्परमया धिया। भोगाशाभावनां चित्तात्समूलामलमुद्धरेत् ॥ ५१॥ यदुदेति परो मोहो जरामरणकारणम्। आशापाशशतोल्लासिवासना तद्विजृम्भते ॥ ५२॥ मम पुत्रा मम धनमयं सोऽहमिदं मम। इतीयमिन्द्रजालेन वासनैव विवल्गति ॥ ५३॥ शून्ये एव शरीरेऽस्मिन्विलोलो जलवातवत्। अनन्यया वासनया त्वहंभावाहिरर्पितः ॥ ५४॥ परमार्थेन तत्त्वज्ञ ममाहमिदमित्यलम्। नदिश्रेण्योआत्मतत्त्वादृते सत्यं न कदाचन किंचन ॥ ५५॥ खाद्रिद्यूर्वीनदिश्रेण्यो दृष्टिसृष्ट्या पुनः पुनः। सैवान्येव विचित्रेयमविद्या परिवर्तते ॥ ५६॥ उदेत्यज्ञानमात्रेण नश्यति ज्ञानमात्रतः। सन्मात्रे परिविच्छेद्या रज्ज्वामिव भुजंगधीः ॥ ५७॥ महर्षि वशिष्ठ आगे बोले: ३.११४.४९–५७ > जो आदि में ही नहीं था, वह आज भी नहीं है। जो कुछ दि...

अध्याय ३.११४, श्लोक ४१–४८

योगवशिष्ट ३.११४.४१–४८ (अविद्या पर काबू बल से नहीं, बल्कि मन को उसके बारे में कल्पना करने से रोकने मात्र से होता है) श्रीवसिष्ठ उवाच। असंकल्पो ह्यविद्याया निग्रहः कथितो बुधैः। यथा गगनपद्मिन्याः स भाति सुकरः स्वयम् ॥ ४१॥ भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत्। अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥ ४२॥ नष्टोऽहमिति संकल्पाद्यथा दुःखेन नश्यति। प्रबुद्धोऽस्मीतिसंकल्पाज्जनो ह्येति यथा सुखम् ॥ ४३॥ तथा संमूढसंकल्पान्मूढतामेति वै मनः। प्रबोधोदारसंकल्पात्प्रबोधायानुधावति ॥ ४४॥ क्षणात्संस्मरणादेषा ह्यविद्योदेति शाश्वती। यस्माद्विस्मरणादन्तः परिणश्यति नश्वरी ॥ ४५॥ भावनी सर्वभावानां सर्वभूतविमोहिनी। भारिणी स्वात्मनो नाशे स्वात्मवृद्धौ विनाशिनी ॥ ४६॥ मनो यदनुसंधत्ते तत्सर्वेन्द्रियवृत्तयः। क्षणात्संपादयन्त्येता राजाज्ञामिव मन्त्रिणः ॥ ४७॥ तस्मान्मनोनुसंधानं भावेषु न करोति यः। अन्तश्चेतनयत्नेन स शान्तिमधिगच्छति ॥ ४८॥ महर्षि वशिष्ठ आगे बोले: ३.११४.४१–४८ > विद्वानों ने कहा है कि अविद्या का निग्रह केवल संकल्प का अभाव है। जैसे आकाश में कमल का निग्रह स्वयं ही सरल प्रतीत होता है। > इस संसारी भ्रम का, ...

अध्याय ३.११४, श्लोक ३१–४०

योगवशिष्ट ३.११४.३१–४० (सच्ची आत्मा शरीर से पूर्णतः भिन्न है) श्रीवसिष्ठ उवाच। नाहं मांसं न चास्थीनि देहादन्यः परो ह्यहम्। इति निश्चयवानन्तः क्षीणाविद्य इहोच्यते ॥ ३१॥ प्रोत्तुङ्गसुरशैलाग्रवैदूर्य शिखरप्रभा। अथवार्कांशुदुर्भेदा तिमिरश्रीः स्थितोपरि ॥ ३२॥ कल्प्यते हि यथा व्योम्नः कालिमेति स्वभावतः। पुंसा धरणिसंस्थेन स्वसंकल्पनयेद्धया ॥ ३३॥ कल्पितैवमविद्येयमनात्मन्यात्मभावना। पुरुषेणाप्रबुद्धेन न प्रबुद्धेन राघव ॥ ३४॥ श्रीराम उवाच। मेरुनीलमणिच्छाया नेयं नापि तमःप्रभा। तदेतत्किंकृतं ब्रह्मन्नीलत्वं नभसो वद ॥ ३५॥ श्रीवसिष्ठ उवाच। न नाम नीलता व्योम्नः शून्यस्य गुणवत्स्थिता। अन्यरत्नप्रभाभावान्न वाप्येषा च मैरवी ॥ ३६॥ तेजोमयत्वादण्डस्य स्फारत्वादिव तेजसः। प्राकाश्यादण्डपारस्य तमसो नात्र संभवः ॥ ३७॥ केवलं शून्यतैवैषा बह्वी सुभग लक्ष्यते। वयस्येवानुरूपा या अविद्याया असन्मयी ॥ ३८॥ स्वदृष्टिक्षयसंपत्तावक्ष्णोरेवोदितं तमः। वस्तुस्वभावात्तद्व्योम्नः कार्ष्ण्यमित्यवलोक्यते ॥ ३९॥ एतद्बुद्ध्वा यथा व्योम्नि दृश्यमानोऽपि कालिमा। न कालिमेति बुद्धिः स्यादविद्यातिमिरं तथा ॥ ४०॥ महर्षि वशिष्ठ आगे बोले: ३.११...

अध्याय ३.११४, श्लोक २२–३०

योगवशिष्ट ३.११४.२२–३० (समस्त बन्धन का मूल मन की अपने और जगत् के विषय में दृढ़ अवधारणाएँ हैं) श्रीवसिष्ठ उवाच। पौरुषोद्योगसिद्धेन भोगाशा रूपतां गता। असंकल्पनमात्रेण साविद्या प्रविलीयते ॥ २२॥ नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः। सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः ॥ २३॥ संकल्पः परमो बन्धस्त्वसंकल्पो विमुक्तता। संकल्पं संविजित्यान्तर्यथेच्छसि तथा कुरु ॥ २४॥ दृढा न याम्बरेऽत्रास्ति नलिनी हेमपङ्कजा। लोलवैदूर्यमधुपा सुगन्धितदिगन्तरा ॥ २५॥ उद्दण्डैः प्रकटाभोगैर्मृणालभुजमण्डलैः। विहसन्ती प्रकाशस्य शशिनो रश्मिमण्डलम् ॥ २६॥ विकल्पजालिकेवेत्थमसत्येवापि सत्समा। मनःस्वार्थविलासार्थं यथा बालेन कल्प्यते ॥ २७॥ तथैवेयमविद्येह भवबन्धनबन्धनी। चपला न सुखायैव बालेन कलिता दृढा ॥ २८॥ कृशोऽतिदुःखी बद्धोऽहं हस्तपादादिमानहम्। इति भावानुरूपेण व्यवहारेण बध्यते ॥ २9 ॥ नाहं दुःखी न मे देहो बन्धः कस्यात्मनः स्थितः। इति भावानुरूपेण व्यवहारेण मुच्यते ॥ ३०॥ महर्षि वसिष्ठ ने कहा: ३.११४.२२–३० > पुरुषार्थ के सफल प्रयास से जो भोगों की आशा रूप धारण कर चुकी है, वह केवल संकल्प न करने मात्र से पूर्णतः विलीन ...

अध्याय ३.११४, श्लोक ११–२१

योगवशिष्ट ३.११४.११–२१ (आत्मा के सर्वोच्च अद्वैत स्वरूप का प्रतिपादन) श्रीराम उवाच। यावत्किंचिदिदं दृश्यं साविद्या क्षीयते च सा। आत्मभावनया ब्रह्मन्नात्मासौ कीदृशः स्मृतः ॥ ११॥ श्रीवसिष्ठ उवाच। चेत्यानुपातरहितं सामान्येन च सर्वगम्। यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः ॥ १२॥ आब्रह्म स्तम्बपर्यन्तं तृणादि यदिदं जगत्। तत्सर्वं सर्वदात्मैव नाविद्या विद्यतेऽनघ ॥ १३॥ सर्वं च खल्विदं ब्रह्म नित्यं चिद्धनमक्षतम्। कल्पनान्या मनोनाम्नी विद्यते नहि काचन ॥ १४॥ न जायते न म्रियते किंचिदत्र जगत्त्रये। न च भावविकाराणां सत्ता क्वचन विद्यते ॥ १५॥ केवलं केवलाभासं सर्वसामान्यमक्षतम्। चेत्यानुपातरहितं चिन्मात्रमिह विद्यते ॥ १६॥ तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे। शान्ते समसमाभोगे निर्विकारोदितात्मनि ॥ १७॥ यैषा स्वभावातिगतं स्वयं संकल्प्य धावति। चिच्चैत्यं स्वयमाम्लाना सा म्लाना तन्मनः स्मृतम् ॥ १८॥ एतस्मात्सर्वगाद्देवात्सर्वशक्तेर्महात्मनः। विभागकलनाशक्तिर्लहरीवोत्थिताम्भसः ॥ १९॥ एकस्मिन्वितते शान्ते या न किंचन विद्यते। संकल्पमात्रेण गता सा सिद्धिं परमात्मनि ॥ २०॥ अतः संकल्पसिद्धेयं संकल्पेन...