Posts

अध्याय ३.६६, श्लोक १–११

 योगवशिष्ट ३.६६.१–११ (ये श्लोक बताते हैं कि एक परम सत्य मन की शक्ति से अनेक रूपों में दिखता है, जैसे एक दीपक से कई दीपक) श्रीवसिष्ठ उवाच। एवमेकं परं वस्तु राम नानात्वमेत्यलम्। नानात्वमिव संजातं दीपाद्दीपशतं यथा ॥ १॥ यथाभूतमसद्रूपमात्मानं यदि पश्यति। विचार्यतेऽन्तस्तदनुभावहीनं न शोचति ॥ २॥ चित्तमात्रं नरस्तस्मिन्गते शान्तमिदं जगत्। उपानद्गूढपादस्य ननु चर्मास्तृतैव भूः ॥ ३॥ पत्रमात्रादृते नान्यत्कदल्या विद्यते यथा। भ्रममात्रादृते नान्यज्जगतो विद्यते तथा ॥ ४॥ जायते बालतामेति यौवनं वार्धकं ततः। मृतिं स्वर्गं च नरकं भ्रमाच्चेतो हि नृत्यति ॥ ५॥ विचित्रबुद्बुदोल्लासे स्वात्मनो व्यतिरेकिणि। यथा सुरायाः सामर्थ्यं तथा चित्तस्य संसृतौ ॥ ६॥ यथा द्वित्वं शशाङ्कादौ पश्यत्यक्षिमलाविलम्। चिच्चेतनकलाक्रान्ता तथैव परमात्मनि ॥ ७॥ यथा मदवशाद्भ्रान्तान्क्षीबः पश्यति पादपान्। तथा चेतनविक्षुब्धान्संसारांश्चित्प्रपश्यति ॥ ८॥ यथा लीलाभ्रमाद्बालाः कुम्भकृच्चक्रवज्जगत्। भ्रान्तं पश्यन्ति चित्तात्तु विद्धि दृश्यं तथैव हि ॥ ९॥ यदा चिच्चेतति द्वित्वं तदा द्वैतैक्यविभ्रमः। यदा न चेतति द्वैतं तदा द्वैतैक्ययोः क्ष...

अध्याय ३.६५, श्लोक १–१३

 योगवशिष्ट ३.६५.१–१३ (ये श्लोक अद्वैत सत्य सिखाते हैं जिसमें मन परम ब्रह्म से मुख्य कारण के रूप में सभी दृश्यों का उद्भव है) श्रीवसिष्ठ उवाच । परस्मात्कारणादेव मनः प्रथममुत्थितम्। मननात्मकमाभोगि तत्स्थमेव स्थितिं गतम् ॥ १॥ भावाभावलसद्दोलं तेनायमवलोक्यते। सर्गः सदसदाभासः पूर्वगन्ध इवेच्छया ॥ २॥ न कश्चिद्विद्यते भेदो द्वैतैक्यकलनात्मकः। ब्रह्मजीवमनोमायाकर्तृकर्मजगद्दृशाम् ॥ ३॥ अपारावारविस्तारसंवित्सलिलवल्गनैः। चिदेकार्णव एवायं स्वयमात्मा विजृम्भते ॥ ४॥ असत्यमस्थैर्यवशात्सत्यं संप्रतिभासतः। यथा स्वप्नस्तथा चित्तं जगत्सदसदात्मकम् ॥ ५॥ न सन्नासन्न संजातश्चेतसो जगतो भ्रमः। अथ धीसमवायानामिन्द्रजालमिवोत्थितः ॥ ६॥ दीर्घः स्वप्नः स्थितिं यातः संसाराख्यो मनोबलात्। असम्यग्दर्शनात्स्थाणाविव पुंस्प्रत्ययो मुधा ॥ ७॥ अनात्मालोकनाच्चित्तं चित्तत्वं नानुशोचति। वेतालकल्पनाद्बाल इव संकल्पिते भये ॥ ८॥ अनाख्यस्य स्वरूपस्य सर्वाशातिगतात्मनः। चेत्योन्मुखतया चित्तं चित्ताज्जीवत्वकल्पनम् ॥ ९॥ जीवत्वादप्यहंभावस्त्वहंभावाच्च चित्तता। चित्तत्वादिन्द्रियादित्वं ततो देहादिविभ्रमाः ॥ १०॥ देहादिमोहतः स्वर्गनरकौ मो...

अध्याय ३.६४, श्लोक २३–३१

 योगवशिष्ट ३.६४.२३–३१ (ये श्लोक व्यक्तिगत आत्मा और संसार की उत्पत्ति को विचार की शक्ति से समझाते हैं) श्रीवसिष्ठ उवाच। सर्गादावादिजो देहो जीवः संकल्पसंभवः। क्रमेण पदमासाद्य वैरिञ्चं कुरुते जगत् ॥ २३॥ आत्मभूकलनात्मासौ यत्संकल्पयति क्षणात्। तत्स्वभाववशादेव जातमेव प्रपश्यति ॥ २४॥ चित्स्वभावात्समायातं ब्रह्मत्वं सर्वकारणम्। संसृतौ कारणं पश्चात्कर्म निर्माय संस्थितम् ॥ २५॥ चित्तं स्वभावात्स्फुरति चित्तः फेन इवाम्भसः। कर्मभिर्बध्यते पश्चाड्डिण्डीरमिव रज्जुभिः ॥ २६॥ संकल्पः कलनाबीजं तदात्मैव हि जीवकः। कर्म पश्चात्तनोत्युच्चैरुत्थायाकर्मतः क्रमात् ॥ २७॥ क्रोडीकृताङ्कुरं पूर्वं जीवो धत्ते स्वजीवितम्। पश्चान्नानात्वमायाति पत्राङ्कुरफलक्रमैः ॥ २८॥ अन्ये स्व एव ये जीवा एवमेवाकृतिं गताः। पूर्वोत्पन्ने जगति ते यान्ति भूताश्रयां स्थितिम् ॥ २९॥ स्वकर्मभिस्ततो जन्ममृतिकारणतां गतैः। प्रयान्त्यूर्ध्वमधस्ताद्वा कर्म चित्स्पन्द उच्यते ॥ ३०॥ चित्स्पन्दन भवति कर्म तदेव दैवं चित्तं तदेव भवतीह शुभाशुभादि। तस्माज्जगन्ति भुवनानि भवन्ति पूर्वं भूत्वा निजाङ्गकुसुमानि तरोरिवाद्यात् ॥ ३१॥ महर्षि वसिष्ठ ने कहा:...

अध्याय ३.६४, श्लोक ११–२२

 योगवशिष्ट ३.६४.११–२२ (ये श्लोक शुद्ध चेतना से व्यक्तित्व के क्रमिक निर्माण की व्याख्या करते हैं) श्रीवसिष्ठ उवाच। चिद्रूपस्यात्मतत्त्वस्य स्वाभाववशतः स्वयम्। मनाक्संवेदनमिव यत्तज्जीव इति स्मृतम् ॥ ११॥ तदेव घनसंवित्त्या यात्यहंतामनुक्रमात्। वह्न्यणुः स्वेन्धनाधिक्यात्स्वां प्रकाशकतामिव ॥ १२॥ यथा स्वतारकामार्गे व्योम्नः स्फुरति नीलिमा। शून्यस्याप्यस्य जीवस्य तथाहंभावभावना ॥ १३॥ जीवोऽहंकृतिमादत्ते संकल्पकलयेद्धया। स्वयैतया घनतया नीलिमानमिवाम्बरम् ॥ १४॥ अहंभावो हि दिक्कालव्यवच्छेदी कृताकृतिः। स्वयं संकल्पवशतो वातस्पन्द इव स्फुरन् ॥ १५॥ संकल्पोन्मुखता यातस्त्वहंकाराभिधः स्थितः। चित्तं जीवो मनो माया प्रकृतिश्चेति नामभिः ॥ १६॥ तत्संकल्पात्मकं चेतो भूततन्मात्रकल्पनम्। कुर्वंस्ततो व्रजत्येव संकल्पाद्याति पञ्चताम् ॥ १७॥ तन्मात्रपञ्चकाकारं चित्तं तेजःकणो भवेत्। अजातजगति व्योम्नि तारका पेलवा यथा ॥ १८॥ तेजःकणत्वमादत्ते चित्तं तन्मात्रकल्पनात्। शनैः स्वस्मात्परिस्पन्दाद्बीजमङ्कुरतामिव ॥ १९॥ असौ तेजःकणोऽण्डाख्यः कल्पनात्कश्चिदण्डताम्। प्रयात्यन्तःस्फुरद्ब्रह्मा जलमापिण्डतामिव ॥ २०॥ कश्चिद्द्रागि...

अध्याय ३.६४, श्लोक १–१०

 योगवशिष्ट ३.६४.१–१० (ये श्लोक परम सत्य को सर्वव्यापी, शाश्वत ब्रह्म या परमात्मा के रूप में वर्णित करते हैं, जो शुद्ध चेतना और भीतर अनुभव होने वाला आनंद है, जिसका न आदि है और न अंत) श्रीवसिष्ठ उवाच । योऽयं सर्वगतो देवः परमात्मा महेश्वरः। स्वच्छः स्वानुभवानन्दस्वरूपोऽन्तादिवर्जितः ॥ १॥ एतस्मात्परमानन्दाच्छुद्धचिन्मात्ररूपिणः। जीवः संजायते पूर्वं स चित्तं चित्ततो जगत् ॥ २॥ श्रीराम उवाच । स्वानुभूतिप्रमाणेऽस्मिन्ब्रह्मणि ब्रह्मबृंहिते। कथं सत्तामवाप्नोति जीवको द्वैतवर्जिते ॥ ३॥ श्रीवसिष्ठ उवाच । असदाभासमच्छात्म ब्रह्मास्तीह प्रबृंहितम्। बृहच्चिद्भैरववपुरानन्दाभिधमव्ययम् ॥ ४॥ तस्य यत्सममापूर्णं शुद्धं सत्वमचिह्नितम्। तद्विदामप्यनिर्देश्यं तच्छान्तं परमं पदम् ॥ ५॥ तस्यैवोद्यदिवाशान्ति यत्सत्त्वं संविदात्मकम्। स्वभावात्स्पन्दनं तत्तु जीवशब्देन कथ्यते ॥ ६॥ तत्रेमाः परमादर्शे चिद्व्योम्न्यनुभवात्मिकाः। असंख्याः प्रतिबिम्बन्ति जगज्जालपरम्पराः ॥ ७॥ ब्रह्मणः स्फुरणं किंचिद्यदवाताम्बुधेरिव। दीपस्येवाप्यवातस्य तं जीवं विद्धि राघव ॥ ८॥ शान्तत्वापगमेऽच्छस्य मनाक्संवेदनात्मकम्। स्वाभाविकं यत्स्फुर...

अध्याय ३.६३, श्लोक १–११

 योगवशिष्ट ३.६३.१–११ (ये श्लोक बताते हैं कि ब्रह्म, जो परम सत्य है, सब कुछ है। यह सर्वशक्तिमान है, हर जगह मौजूद है और हर संभव रूप ले सकता है) श्रीवसिष्ठ उवाच । यदेतद्ब्रह्मतत्त्वं सर्वथा सर्वदैव सर्वत एव सर्वशक्ति सर्वाकारं सर्वेश्वरं सर्वगं सर्वमेवेति ॥ १॥ एष त्वात्मा सर्वशक्तित्वाच्च क्वचिच्चिच्छक्तिं प्रकटयति क्वचिच्छान्तिं क्वचिज्जडशक्तिं क्वचिदुल्लासं क्वचित्किंचिन्न किंचित्प्रकटयति ॥ २॥ यत्र यदा यदेवासौ यथा भावयति तत्र तदा तदेवासौ प्रपश्यति ॥ ३॥ सर्वशक्तेर्हि या यैव यथोदेति तथैव सा ॥ ४॥ तदास्ति शक्तिर्नानारूपिणी सा स्वभावत इमाः शक्तयोऽयमात्मेति ॥ ५॥ एवं विकल्पजालं व्यवहारार्थं धीमद्भिः परिकल्पितं लोके नत्वात्मनि विद्यते भेदः ॥ ६॥ यथोर्मितरङ्गपयसां सागरे कटकाङ्गदकेयूरैर्वा हेम्नः। अवयवावयविनोः संवित्काल्पनिकी द्विता न वास्तवी ॥ ७॥ यथा यच्चेत्यते हि तथैव तन्न बाह्यतो नान्तरतश्चैतत्समुदेति हि ॥८॥ सर्वात्मत्वात्समाभासं क्वचित्किंचित्प्रपश्यति ॥ ९॥ सर्वाकारमयं ब्रह्मैवेदं ततं मिथ्याज्ञानवद्भिः शक्तिशक्तिमत्त्वे अवयवावयविरूपे कल्पिते न पारमार्थिके ॥ १०॥ सद्वा भवत्वसद्वा चिद्यत्संकल...

अध्याय ३.६२, श्लोक २३–३३

 योगवशिष्ट ३.६२.२३–३३ (ये श्लोक पौरुष या मानवीय प्रयास पर जोर देते हैं बजाय दैव पर निष्क्रिय निर्भरता के) श्रीवसिष्ठ उवाच । प्रष्टव्योऽहं त्वया राम दैवपौरुषनिर्णयः। मदुक्तं पौरुषं पाल्यं त्वयेति नियतिः स्थिता ॥ २३॥ भोजयिष्यति मां दैवमिति दैवपरायणः। यत्तिष्ठत्यक्रियो मौनं नियतेरेष निश्चयः ॥ २४॥ न स्याद्बुद्धिर्न कर्माणि न विकारादि नाकृतिः। केवलं त्वित्थमाकल्पं स्थित्या भाव्यमिति स्थिताः ॥ २५॥ अवश्यंभवितव्यैषा त्विदमित्थमिति स्थितिः। न शक्यते लङ्घयितुमपि रुद्रादिबुद्धिभिः ॥ २६॥ पौरुषं न परित्याज्यमेतामाश्रित्य धीमता। पौरुषेणैव रूपेण नियतिर्हि नियामिका ॥ २७॥ अपौरुषं हि नियतिः पौरुषं सैव सर्गगा। निष्फलाऽपौरुषाकारा सफला पौरुषात्मिका ॥ २८॥ नियत्या मूकतामेत्य निष्पौरुषतयाऽक्रियम्। यस्तिष्ठति प्राणमरुत्स्पन्दस्तस्य क्व गच्छति ॥ २९॥ अथ प्राणक्रियारोधमपि कृत्वा विरामदम्। यदि तिष्ठति तत्साधुर्मुक्त एव किमुच्यते ॥ ३०॥ पौरुषैकात्मता श्रेयो मोक्षोऽत्यन्तमकर्तृता। आभ्यां तु सबलः पक्षो निर्दुःखैव महात्मनाम् ॥ ३१॥ नियतिर्ब्रह्मसत्ताभा तस्यां चेत्परिणम्यते। नूनं परमशुद्धाख्यं तत्प्राप्तैव परागतिः ॥ ...