Posts

अध्याय ३.११६, श्लोक १८–२४

योगवशिष्ट ३.११६.१८–२४ (ब्रह्म की मूल शक्ति से व्यक्ति के क्रमिक प्रकटन का वर्णन) श्रीवसिष्ठ उवाच। ब्रह्मणो मनःशक्तिरभ्युदिता पुरःस्थिताकाशशक्तिमवलम्ब्य तत्रस्थपवनतानुपातिनी घनसंकलत्वं गच्छति ॥ १८॥ ततः पुरःप्राप्तभूततन्मात्रपञ्चकतामेत्यान्तःकरणतां नीत्वा सात्वसूक्ष्मा प्रकृतिर्भूत्वा गगनपवनतेजोरूपतासंकल्पात्प्रालेयरूपतामुपेत्य शाल्योषधिं विशन्ती प्राणिनां गर्भतां च गच्छति ॥ १९॥ जायते तस्मात्ततः पुरुषः संपद्यते ॥ २०॥ तेन पुरुषेण जातमात्रेणैव बाल्यात्प्रभृति विद्याग्रहणं कर्तव्यं गुरवोऽनुगन्तव्याः ॥ २१॥ ततः क्रमात्पुंसस्तवेव चमत्कृतिर्जायत्ते ॥ २२॥ स्वच्छदृशा चित्तवृत्तेः पुरुषस्य हेयोपादेयविचार उत्पद्यते ॥ २३॥ तादृग्विवेकवति संकलिताभिमाने पुंसि स्थिते विमलसत्त्वमयाग्न्यजातौ । सप्तात्मिकावतरति क्रमशः शिवाय चेतःप्रकाशनकरी ननु योगभूमिः ॥ २४॥  महर्षि वशिष्ठ ने कहा:  ३.११६.१८–२४ > ब्रह्म की मनःशक्ति उदय होती है। सामने स्थित आकाश-शक्ति का आश्रय लेकर और वहाँ विद्यमान पवन-स्वभाव का अनुसरण करती हुई वह घनी संकल्पता को प्राप्त होती है। > तत्पश्चात् वह सामने प्राप्त भूत-तन्मात्रों की ...

अध्याय ३.११६, श्लोक १०–१७

योगवशिष्ट ३.११६.१०–१७ (चंचल मन, जो समस्त सुख-दुःख का मूल है, उसकी पूर्ण असत्ता व्यावहारिक रूप से कैसे सिद्ध हो) श्रीराम उवाच। एवं मनःपरिक्षये सकलसुखदुःखानामन्तः प्राप्यत इति भवता प्रोक्तं तत्कथं महात्मंश्चपलवृत्तिरूपस्यास्य मनसोऽसत्ता भवति ॥ १०॥ श्रीवसिष्ठ उवाच। रघुकुलेन्दो श्रृणु मनःप्रशमने युक्तिं यां ज्ञात्वा स्वस्वाचारदूरे मनःसंधिरयमेष्यसि ॥ ११॥ इह हि तावद्ब्रह्मणः सर्वभूतानां त्रिविधोत्पत्तिरिति तत्पूर्वोक्तम् ॥ १२॥ तत्रेदंप्रथमया मनःकल्पनया देहीति सा ब्रह्मरूपिणी संकल्पमयी भूत्वा यदेव संकल्पयति तदेव पश्यति तेनेदं भुवनाडम्बरं कल्प्यते ॥ १३॥ तत्रजननमरणसुखदुःखमोहादिकं संसरणं कल्पयन्ती कल्पानुरचना बहुनाममन्थरं स्थित्वा स्वयं विलीयते हिमकणिकेवातपगता ॥ १४॥ कालोदितः संकल्पवशात् पुनरन्यतया जायते सापि पुनर्विलीयते पुनरप्युदेति सैवेति भूयोभूयोऽनुसंसरन्ती स्वयमुपशाम्यति ॥ १५॥ इत्थमनन्ता ब्रह्मकोटयोऽस्मिन्ब्रह्माण्डेऽन्येषु च समतीता भविष्यन्तीति सन्ति चेतरा अनन्ता यासां संख्यापि न विद्यते ॥ १६॥ एवमस्यां तादृशि वर्तमानायामीश्वरादागत्यजीवो यथा जीव्यते विमुच्यते तच्छ्रुणु ॥ १७॥ श्रीराम ने कहा: ...

अध्याय ३.११६, श्लोक १–९

योगवशिष्ट ३.११६.१–९ (लवण राजा के अद्भुत अनुभव) श्रीराम उवाच। राजसूयफलं प्राप्तं लवणेन किल प्रभो। प्रमाणं किमिवात्र स्यात्कल्पनाजालशम्बरे ॥ १॥ श्रीवसिष्ठ उवाच। यदा शाम्बरिकः काले संप्राप्तो लावणीं सभाम्। तदाहमवसं तत्र तत्प्रत्यक्षेण दृष्टवान् ॥ २॥ अहं सभ्यैस्ततस्तत्र गते शाम्बरिकर्मणि। किमेतदिति यत्नेन पृष्टश्च लवणेन च ॥ ३॥ चिन्तयित्वा मया दृष्ट्वा तत्र तत्कथितं ततः। श्रृणु तत्ते प्रवक्ष्यामि राम शाम्बरिकेहितम् ॥ ४॥ राजसूयस्य कर्तारो ये हि ते द्वादशाब्दिकम्। आपद्दुःखं प्राप्नुवन्ति नानाकारव्यथामयम् ॥ ५॥ अतः शक्रेण गगनाद्दुःखाय लवणस्य सः। प्रहितो देवदूतो हि राम शाम्बरिकाकृतिः ॥ ६॥ राजसूयक्रियाकर्तुस्तस्य दत्त्वा महापदम्। अगच्छत्स नभोमार्गं सुरसिद्धनिषेवितम् ॥ ७॥ तस्मात्प्रत्यक्षमेवैतद्राम नात्र संदेहोऽस्ति । मनो हि विलक्षणानां क्रियाणां कर्तृ भोक्तृ च तदेव निर्घृष्य संशोध्य चित्तरत्नमिह हिमकणमिवातपेन विलीनतां विवेकेन नीत्वा परं श्रेयः प्राप्स्यसि । चित्तमेव सकलभूताडम्बरकारिणीमविद्यां विद्धि । सा विचित्रकेन्द्रजालवशादिदमुत्पादयति । अविद्याचित्तजीवबुद्धिशब्दानां भेदो नास्ति वृक्षतरुशब्दयोर...

अध्याय ३.११५, श्लोक २७–३६

योगवशिष्ट ३.११५.२७–३६ (ये श्लोक राजा लवण की कथा को आगे बढ़ाकर मन की अद्भुत शक्ति दिखाते हैं) श्रीवसिष्ठ उवाच। हरिश्चन्द्रकुलोत्थेन लवणेन पुरानघ। एकं तेनोपविष्टेन चिन्तितं मनसा चिरम् ॥ २७॥ पितामहो मे सुमहान्राजसूयस्य याजकः। अहं तस्य कुले जातस्तं यजे मनसा मखम् ॥ २८॥ इति संचिन्त्य मनसा कृत्वा संभारमादृतः। राजसूयस्य दीक्षायां प्रविवेश महीपतिः ॥ २९॥ ऋत्विजश्चाह्वयामास पूजयामास सन्मुनीन्। देवानामन्त्रयामास ज्वालयामास पावकम् ॥ ३०॥ यथेच्छं यजमानस्य मनसोपवनान्तरे। ययौ संवत्सरः साग्रो देवर्षिद्विजपूजया ॥ ३१॥ भूतेभ्यो द्विजपूर्वेभ्यो दत्त्वा सर्वस्वदक्षिणाम्। विबुध्यत दिनस्यान्ते स्व एवोपवने नृपः ॥ ३२॥ एवं स लवणो राजा राजसूयमवाप्तवान्। मनसैव हि तुष्टेन युक्तं तस्य फलेन च ॥ ३३॥ अतश्चित्तं नरं विद्धि भोक्तारं सुखदुःखयोः। तन्मनः पावनोपाये सत्ये योजय राघव ॥ ३४॥ पूर्णे देशे सुसंपूर्णः पुमान्नष्टे विनश्यति। देहोऽहमिति येषां तु निश्चयस्तैरलं बुधाः ॥ ३५॥ उच्चैर्विवेकवति चेतसि संप्रबुद्धे दुःखान्यलं विगलितानि विविक्तबुद्धेः। भास्वत्करप्रकटिते ननु पद्मखण्डे संकोचजाड्यतिमिराणि चिरं क्षतानि ॥ ३६॥ महर्षि श्री...

अध्याय ३.११५, श्लोक १८–२६

योगवशिष्ट ३.११५.१८–२६ (दुःख शरीर का नहीं है। शरीर जड़ पदार्थ है और न तो सुख अनुभव कर सकता है न दुःख ) श्रीवसिष्ठ उवाच। चित्ताविद्यामनोजीववासनेति कृतात्मभिः। कर्मात्मेति च यः प्रोक्तः स देही दुःखकोविदः ॥ १८॥ जडो देहो न दुःखार्हो दुःखी देह्यविचारतः। अविचारो घनाज्ञानादज्ञानं दुःखकारणम् ॥ १९॥ शुभाशुभानां धर्माणां जीवो विषयतां गतः। अविवेकैकदोषेण कोशेनेव हि कीटकः ॥ २०॥ अविवेकामयोन्नद्धं मनो विविधवृत्तिमत्। नानाकारविहारेण परिभ्रमति चक्रवत् ॥ २१॥ उदेति रौति हन्त्यत्ति याति वल्गति निन्दति। मन एव शरीरेऽस्मिन्न शरीरं कदाचन ॥ २२॥ यथा गृहपतिर्गेहे विविधं हि विचेष्टते। न गृहं तु जडं राम तथा देहे हि जीवकः ॥ २३॥ सर्वेषु सुखदुःखेषु सर्वासु कलनासु च। मनः कर्तृ मनो भोक्तृ मानसं विद्धि मानवम् ॥ २४॥ अत्र ते श्रृणु वक्ष्यामि वृत्तान्तमिममुत्तमम्। लवणोऽसौ यथा यातश्चण्डालत्वं मनोभ्रमात् ॥ २५॥ मनः कर्मफलं भुङ्कते शुभं वाऽशुभमेव वा। यथैतद्बुद्ध्यसे नूनं तथाकर्णय राघव ॥ २६॥ महर्षि वशिष्ठ आगे बोले: ३.११५.१८–२६ > जिसे ज्ञानी जन चित्त, अविद्या, मन, जीव और वासना कहते हैं तथा जिसे कर्मात्मा भी कहा गया है—वही देहधा...

अध्याय ३.११५, श्लोक १०–१७

योगवशिष्ट ३.११५.१०–१७ ( The mind when clothed in the power of Consciousness, appears as the living individual ) श्रीवसिष्ठ उवाच। काष्ठकुड्योपमो देहो न किंचन इहानघ। स्वप्नालोक इवानेन चेतसा परिकल्प्यते ॥ १०॥ चेतस्तु जीवतां यातं चिच्छक्तिपरिभूषितम्। विद्यात्संसारसंरम्भं कपिपोतकचञ्चलम् ॥ ११॥ देही हि कर्मभाग्यो हि नानाकारशरीरधृक्। अहंकारमनोजीवनामभिः परिकल्प्यते ॥ १२॥ तस्येमान्यप्रबुद्धस्य न प्रबुद्धस्य राघव। सुखदुःखान्यनन्तानि शरीरस्य न कानिचित् ॥ १३॥ अप्रबुद्धं मनो नानासंज्ञाकल्पितकल्पनम्। वृत्तीरनुपतच्चित्रा विचित्राकृतितां गतम् ॥ १४॥ अप्रबुद्धं मनो यावन्निद्रितं तावदेव हि। संभ्रमं पश्यति स्वप्ने न प्रबुद्धं कदाचन ॥ १५॥ अज्ञाननिद्राक्षुभितो जीवो यावन्न बोधितः। तावत्पश्यति दुर्भेदं संसारारम्भविभ्रमम् ॥ १६॥ संप्रबुद्धस्य मनसस्तमः सर्वं विलीयते। कमलस्य यथा हार्दं दिनालोकविकासिनः ॥ १७॥ महर्षि वशिष्ठ आगे बोले: ३.११५.१०–१७ > हे निष्पाप राघव, यह शरीर यहाँ कुछ भी नहीं है, काठ की दीवार के समान है। यह केवल इस मन के द्वारा कल्पित किया जाता है, ठीक वैसे ही जैसे स्वप्न के दृश्य कल्पित होते हैं। ...

अध्याय ३.११५, श्लोक १–९

योगवशिष्ट ३.११५.१–९ ( ज्ञान अज्ञान के अन्धकार को उसी प्रकार दूर कर देता है जैसे प्रकाश रात्रि को मिटा देता है ) श्रीवाल्मीकिरुवाच। एवमुक्तो भगवता वसिष्ठेन महात्मना। रामः कमलपत्राक्ष उन्मीलित इवाबभौ ॥ १॥ विकासितान्तःकरणः शोभामलमुपाययौ। आश्वस्तस्तमसि क्षीणे पद्मोऽर्कालोकनादिव ॥ २॥ बोधविस्मयसंजातसौम्यस्मितसिताननः। दन्तरश्मिसुधाधौतामिमां वाचमुवाच ह ॥ ३॥ श्रीराम उवाच। अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः। अविद्यमाना या विद्या तया सर्वे वशीकृताः ॥ ४॥ इदं तद्वज्रतां यातं तृणमात्रं जगत्त्रये। अविद्ययापि यन्नामासदेव सदिव स्थितम् ॥ ५॥ अस्याः संसारमायाया नद्यास्त्रिभुवनाङ्गणे। रूपं मदवबोधार्थं कथयानुग्रहात्पुनः ॥ ६॥ अन्यो यत्संशयोऽयं मे महात्मन्हृदि वर्तते। लवणोऽसौ महाभागः किं नामापदमाप्तवान् ॥ ७॥ संश्लिष्टयोराहतयोर्द्वयोर्वा देहदेहिनोः। ब्रह्मन्क इव संसारी शुभाशुभफलैकभाक् ॥ ८॥ लवणस्य तथा दत्त्वा तामापदमनुत्तमाम्। किं गतश्चञ्चलारम्भः कश्चासावैन्द्रजालिकः ॥ ९॥ महर्षि वाल्मीकि ने कहा:  ३.११५.१–३ > जब महात्मा वसिष्ठ ने ये वचन कहे, तब कमल-पत्र जैसी आँखों वाले राम ऐसे चमक उठे जैसे वे अ...

अध्याय ३.११४, श्लोक ७०–७७

योगवशिष्ट ३.११४.७०–७७ (आकाश में नगर बसाने और गिराने का पूरा नाटक स्वप्न में पहले से ही सुख-दुःख सहित अनुभव किया जा चुका है) श्रीवसिष्ठ उवाच। नभोनगरनिर्माणपातोत्पातन संभ्रमाः। स्वप्नादिष्वनुभूयन्ते विचित्राः सुखदुःखदाः ॥ ७०॥ संसारवासनाश्चेतो यदि नाम न पूरयेत्। तज्जाग्रत्स्वप्नसंरम्भाः किं नयेयुरिहापदम् ॥ ७१॥ दृश्यते रौरवा वीचिनरकानर्थशासना। मिथ्याज्ञाने गते वृद्धिं स्वप्नोपवनभूमिषु ॥ ७२॥ अनया वेधितं चेतो विसतन्तावपि क्षणात्। पश्यत्यखिलसंसारसागरानर्थविभ्रमम् ॥ ७३॥ अनयोपहते चित्ते राज्य एव हि संस्थिताः। तास्तादृश्यो जना यान्ति या न योग्याः श्वपाकिनः ॥ ७४॥ तस्माद्राम परित्यज्य वासनां भवबन्धनीम्। सर्वरागमयीं तिष्ठ नीरागः स्फटिको यथा ॥ ७५॥ तिष्ठतस्तव कार्येषु मास्तु रागेषु रञ्जना। स्फटिकस्येव चित्राणि प्रतिबिम्बानि गृह्णतः ॥ ७६॥ विदितकौतुकसङ्घसमिद्धया यदि करोषि सदैव सुशीलया। वरधिया गतप्राकृतिकक्रियस्तदसि केन सहानुपमीयसे ॥ ७७॥ महर्षि वशिष्ठ आगे बोले: ३.११४.७०–७७ > आकाश में नगरों के निर्माण और विध्वंस की उलझनें स्वप्न आदि में अनुभव की जाती हैं; वे विचित्र होती हैं और सुख-दुःख देने वाली होती...

अध्याय ३.११४, श्लोक ५८–६९

योगवशिष्ट ३.११४.५८–६९ (आकाश, अंतरिक्ष, समुद्र, पृथ्वी और नदियों का पूरा दृश्य जगत् अज्ञानी के लिए केवल अविद्या है) श्रीवसिष्ठ उवाच। खाद्व्यब्ध्युर्वीनदी सेयं याऽविद्याऽज्ञस्य राघव। नाविद्या ज्ञस्य तद्ब्रह्म स्वमहिम्ना व्यवस्थितम् ॥ ५८॥ रज्जुसर्पविकल्पौ द्वावक्षेनैवोपकल्पितौ। ज्ञेन त्वेकैव निर्णीता ब्रह्मदृष्टिरकृत्रिमा ॥ ५९॥ मा भवाज्ञो भव प्राज्ञो जहि संसारवासनाम्। अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ॥ ६०॥ कस्तवायं जडो मूको देहो भवति राघव। यदर्थं सुखदुःखाभ्यामवशः परिभूयसे ॥ ६१॥ यथा हि काष्ठजतुनोर्यथा बदरकुण्डयोः। श्लिष्टयोरपि नैकत्वं देहदेहवतोस्तथा ॥ ६२॥ भस्त्रादाहे यथा दाहो न भस्त्रान्तरवर्तिनः। पवनस्य तथा देहनाशे नात्मा न नश्यति ॥ ६३॥ दुःखितोऽहं सुखाढ्योऽहमिति भ्रान्ति रघूद्वह। मृगतृष्णोपमां बुद्ध्वा त्यज सत्यं समाश्रय ॥ ६४॥ अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम्। यदसत्यमविद्याख्यं तन्नूनं स्मृतिमागतम् ॥ ६५॥ प्रसरं त्वमविद्याया मा प्रयच्छ रघूद्वह। अनयोपहिते चित्ते दुष्पारेह कदर्थना ॥ ६६॥ मिथ्यैवानर्थकारिण्या मनोमननपीनया। अनया दुःखदायिन्या महामोहफलान्तया ॥ ६७॥ चन्द्रबिम्बे स...

अध्याय ३.११४, श्लोक ४९–५७

योगवशिष्ट  ३.११४.४९–५७ (दृश्यमान जगत् आदि में भी वास्तव में नहीं था और अब भी नहीं है। जो कुछ प्रतीत होता है वह केवल एक शान्त, निर्दोष ब्रह्म ही है) श्रीवसिष्ठ उवाच। यदादावेव नास्तीदं तदद्यापि न विद्यते। यदिदं भाति तद्ब्रह्म शान्तमेकमनिन्दितम् ॥ ४९॥ मननीयमतो नान्यत्कदा कस्य कथं कुतः। निर्विकारमनाद्यन्तमास्यतामपयन्त्रणम् ॥ ५०॥ परं पौरुषमाश्रित्य यत्नात्परमया धिया। भोगाशाभावनां चित्तात्समूलामलमुद्धरेत् ॥ ५१॥ यदुदेति परो मोहो जरामरणकारणम्। आशापाशशतोल्लासिवासना तद्विजृम्भते ॥ ५२॥ मम पुत्रा मम धनमयं सोऽहमिदं मम। इतीयमिन्द्रजालेन वासनैव विवल्गति ॥ ५३॥ शून्ये एव शरीरेऽस्मिन्विलोलो जलवातवत्। अनन्यया वासनया त्वहंभावाहिरर्पितः ॥ ५४॥ परमार्थेन तत्त्वज्ञ ममाहमिदमित्यलम्। नदिश्रेण्योआत्मतत्त्वादृते सत्यं न कदाचन किंचन ॥ ५५॥ खाद्रिद्यूर्वीनदिश्रेण्यो दृष्टिसृष्ट्या पुनः पुनः। सैवान्येव विचित्रेयमविद्या परिवर्तते ॥ ५६॥ उदेत्यज्ञानमात्रेण नश्यति ज्ञानमात्रतः। सन्मात्रे परिविच्छेद्या रज्ज्वामिव भुजंगधीः ॥ ५७॥ महर्षि वशिष्ठ आगे बोले: ३.११४.४९–५७ > जो आदि में ही नहीं था, वह आज भी नहीं है। जो कुछ दि...

अध्याय ३.११४, श्लोक ४१–४८

योगवशिष्ट ३.११४.४१–४८ (अविद्या पर काबू बल से नहीं, बल्कि मन को उसके बारे में कल्पना करने से रोकने मात्र से होता है) श्रीवसिष्ठ उवाच। असंकल्पो ह्यविद्याया निग्रहः कथितो बुधैः। यथा गगनपद्मिन्याः स भाति सुकरः स्वयम् ॥ ४१॥ भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत्। अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥ ४२॥ नष्टोऽहमिति संकल्पाद्यथा दुःखेन नश्यति। प्रबुद्धोऽस्मीतिसंकल्पाज्जनो ह्येति यथा सुखम् ॥ ४३॥ तथा संमूढसंकल्पान्मूढतामेति वै मनः। प्रबोधोदारसंकल्पात्प्रबोधायानुधावति ॥ ४४॥ क्षणात्संस्मरणादेषा ह्यविद्योदेति शाश्वती। यस्माद्विस्मरणादन्तः परिणश्यति नश्वरी ॥ ४५॥ भावनी सर्वभावानां सर्वभूतविमोहिनी। भारिणी स्वात्मनो नाशे स्वात्मवृद्धौ विनाशिनी ॥ ४६॥ मनो यदनुसंधत्ते तत्सर्वेन्द्रियवृत्तयः। क्षणात्संपादयन्त्येता राजाज्ञामिव मन्त्रिणः ॥ ४७॥ तस्मान्मनोनुसंधानं भावेषु न करोति यः। अन्तश्चेतनयत्नेन स शान्तिमधिगच्छति ॥ ४८॥ महर्षि वशिष्ठ आगे बोले: ३.११४.४१–४८ > विद्वानों ने कहा है कि अविद्या का निग्रह केवल संकल्प का अभाव है। जैसे आकाश में कमल का निग्रह स्वयं ही सरल प्रतीत होता है। > इस संसारी भ्रम का, ...

अध्याय ३.११४, श्लोक ३१–४०

योगवशिष्ट ३.११४.३१–४० (सच्ची आत्मा शरीर से पूर्णतः भिन्न है) श्रीवसिष्ठ उवाच। नाहं मांसं न चास्थीनि देहादन्यः परो ह्यहम्। इति निश्चयवानन्तः क्षीणाविद्य इहोच्यते ॥ ३१॥ प्रोत्तुङ्गसुरशैलाग्रवैदूर्य शिखरप्रभा। अथवार्कांशुदुर्भेदा तिमिरश्रीः स्थितोपरि ॥ ३२॥ कल्प्यते हि यथा व्योम्नः कालिमेति स्वभावतः। पुंसा धरणिसंस्थेन स्वसंकल्पनयेद्धया ॥ ३३॥ कल्पितैवमविद्येयमनात्मन्यात्मभावना। पुरुषेणाप्रबुद्धेन न प्रबुद्धेन राघव ॥ ३४॥ श्रीराम उवाच। मेरुनीलमणिच्छाया नेयं नापि तमःप्रभा। तदेतत्किंकृतं ब्रह्मन्नीलत्वं नभसो वद ॥ ३५॥ श्रीवसिष्ठ उवाच। न नाम नीलता व्योम्नः शून्यस्य गुणवत्स्थिता। अन्यरत्नप्रभाभावान्न वाप्येषा च मैरवी ॥ ३६॥ तेजोमयत्वादण्डस्य स्फारत्वादिव तेजसः। प्राकाश्यादण्डपारस्य तमसो नात्र संभवः ॥ ३७॥ केवलं शून्यतैवैषा बह्वी सुभग लक्ष्यते। वयस्येवानुरूपा या अविद्याया असन्मयी ॥ ३८॥ स्वदृष्टिक्षयसंपत्तावक्ष्णोरेवोदितं तमः। वस्तुस्वभावात्तद्व्योम्नः कार्ष्ण्यमित्यवलोक्यते ॥ ३९॥ एतद्बुद्ध्वा यथा व्योम्नि दृश्यमानोऽपि कालिमा। न कालिमेति बुद्धिः स्यादविद्यातिमिरं तथा ॥ ४०॥ महर्षि वशिष्ठ आगे बोले: ३.११...

अध्याय ३.११४, श्लोक २२–३०

योगवशिष्ट ३.११४.२२–३० (समस्त बन्धन का मूल मन की अपने और जगत् के विषय में दृढ़ अवधारणाएँ हैं) श्रीवसिष्ठ उवाच। पौरुषोद्योगसिद्धेन भोगाशा रूपतां गता। असंकल्पनमात्रेण साविद्या प्रविलीयते ॥ २२॥ नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः। सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः ॥ २३॥ संकल्पः परमो बन्धस्त्वसंकल्पो विमुक्तता। संकल्पं संविजित्यान्तर्यथेच्छसि तथा कुरु ॥ २४॥ दृढा न याम्बरेऽत्रास्ति नलिनी हेमपङ्कजा। लोलवैदूर्यमधुपा सुगन्धितदिगन्तरा ॥ २५॥ उद्दण्डैः प्रकटाभोगैर्मृणालभुजमण्डलैः। विहसन्ती प्रकाशस्य शशिनो रश्मिमण्डलम् ॥ २६॥ विकल्पजालिकेवेत्थमसत्येवापि सत्समा। मनःस्वार्थविलासार्थं यथा बालेन कल्प्यते ॥ २७॥ तथैवेयमविद्येह भवबन्धनबन्धनी। चपला न सुखायैव बालेन कलिता दृढा ॥ २८॥ कृशोऽतिदुःखी बद्धोऽहं हस्तपादादिमानहम्। इति भावानुरूपेण व्यवहारेण बध्यते ॥ २9 ॥ नाहं दुःखी न मे देहो बन्धः कस्यात्मनः स्थितः। इति भावानुरूपेण व्यवहारेण मुच्यते ॥ ३०॥ महर्षि वसिष्ठ ने कहा: ३.११४.२२–३० > पुरुषार्थ के सफल प्रयास से जो भोगों की आशा रूप धारण कर चुकी है, वह केवल संकल्प न करने मात्र से पूर्णतः विलीन ...

अध्याय ३.११४, श्लोक ११–२१

योगवशिष्ट ३.११४.११–२१ (आत्मा के सर्वोच्च अद्वैत स्वरूप का प्रतिपादन) श्रीराम उवाच। यावत्किंचिदिदं दृश्यं साविद्या क्षीयते च सा। आत्मभावनया ब्रह्मन्नात्मासौ कीदृशः स्मृतः ॥ ११॥ श्रीवसिष्ठ उवाच। चेत्यानुपातरहितं सामान्येन च सर्वगम्। यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः ॥ १२॥ आब्रह्म स्तम्बपर्यन्तं तृणादि यदिदं जगत्। तत्सर्वं सर्वदात्मैव नाविद्या विद्यतेऽनघ ॥ १३॥ सर्वं च खल्विदं ब्रह्म नित्यं चिद्धनमक्षतम्। कल्पनान्या मनोनाम्नी विद्यते नहि काचन ॥ १४॥ न जायते न म्रियते किंचिदत्र जगत्त्रये। न च भावविकाराणां सत्ता क्वचन विद्यते ॥ १५॥ केवलं केवलाभासं सर्वसामान्यमक्षतम्। चेत्यानुपातरहितं चिन्मात्रमिह विद्यते ॥ १६॥ तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे। शान्ते समसमाभोगे निर्विकारोदितात्मनि ॥ १७॥ यैषा स्वभावातिगतं स्वयं संकल्प्य धावति। चिच्चैत्यं स्वयमाम्लाना सा म्लाना तन्मनः स्मृतम् ॥ १८॥ एतस्मात्सर्वगाद्देवात्सर्वशक्तेर्महात्मनः। विभागकलनाशक्तिर्लहरीवोत्थिताम्भसः ॥ १९॥ एकस्मिन्वितते शान्ते या न किंचन विद्यते। संकल्पमात्रेण गता सा सिद्धिं परमात्मनि ॥ २०॥ अतः संकल्पसिद्धेयं संकल्पेन...

अध्याय ३.११४, श्लोक १–१०

योगवशिष्ट ३.११४.१–१० (प्रत्येक मनुष्य को जकड़ने वाली अविद्या की घनी अन्धकार कैसे समाप्त होती है) श्रीराम उवाच। अविद्याविभवप्रोत्थं निविडं पुरुषस्य हि। महदान्ध्यमिदं ब्रह्मन्कथं नाम विनश्यति ॥ १॥ श्रीवसिष्ठ उवाच। यथा तुषारकणिका भास्करालोकनात्क्षणात्। नश्यत्येवमविद्येयं राघवात्मावलोकनात् ॥ २॥ तावत्संसारभृगुषु स्वात्मना सह देहिनम्। आन्दोलयति नीरन्ध्रदुःखकण्टकशालिषु ॥ ३॥ अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी। स्वयमात्मावलोकेच्छा मोहसंक्षयदायिनी ॥ ४॥ अस्याः परं प्रपश्यन्त्याः स्वात्मनाशः प्रजायते। आतपानुभवार्थिन्याश्छायाया इव राघव ॥ ५॥ दृष्टे सर्वगते बोधे स्वयमेव विलीयते। सर्वाशाभ्युदितेच्छाया द्वादशार्कगणे यथा ॥ ६॥ इच्छामात्रमविद्येह तन्नाशो मोक्ष उच्यते। स चासंकल्पमात्रेण सिद्धो भवति राघव ॥ ७॥ मनागपि मनोव्योम्नि वासनारजनीक्षये। कालिमा तनुतामेति चिदादित्यमहोदयात् ॥ ८॥ यथोदिते दिनकरे क्वापि याति तमस्विनी। तथा विवेकेऽभ्युदिते क्वाप्यविद्या विलीयते ॥ ९॥ दृढवासनया बन्धो घनतामेति चेतसः। बलाद्वेतालसंकल्पः संध्याकाले यथा शिशोः ॥ १०॥ श्रीराम ने कहा: ३.११४.१ > हे ब्रह्मन्, अविद्या की शक्ति स...

अध्याय ३.११३, श्लोक ६०–६७

योगवशिष्ट ३.११३.६०–६७ (श्रीराम का आश्चर्य) श्रीराम उवाच। सुदीनाचारधर्मिण्या नित्यं प्राकृतकान्तया। अनारतास्तंगतया चित्रमन्धीकृतं जगत् ॥ ६०॥ अनन्तदुःखाकुलया सदैव मृतयानया। संबोधहीनया यत्र चित्रमन्धीकृतं जगत् ॥ ६१॥ कामकोपघनाङ्गिन्या तमःप्रसरवक्रया। अचिरेणाशरीरिण्या चित्रमन्धीकृतं जगत् ॥ ६२॥ स्वात्मान्धरूपास्पदया जडया जाड्यजीर्णया। दुःखदीर्घप्रलापिन्या चित्रमन्धीकृतं जगत् ॥ ६३॥ पुरुषासङ्गसङ्गिन्या रागिण्या क्रिययानया। विद्रवन्त्या विवक्षासु चित्रमन्धीकृतः पुमान् ॥ ६४॥ पुरुषस्य न या शक्ता सोढुमीक्षितुमप्यलम्। तया स्त्रियावरणया चित्रमन्धीकृतः पुमान् ॥ ६५॥ न यस्याश्चेतनैवास्ति याप्यनष्टैव नश्यति। तया स्त्रिया परुषया चित्रमन्धीकृतः पुमान् ॥ ६६॥ अनन्तदुष्प्रसरविलासकारिणी क्षयोदयोन्मुखसुखदुःखभागिनी। इयं प्रभो विगलति केन वाऽसमा मनोगुहानिलयनिबद्धवासना ॥ ६७॥ श्रीराम ने कहा: ३.११३.६०–६३ > आश्चर्य है कि अत्यंत नीच आचरण वाली, सदा साधारण पर आकर्षक और निरंतर अस्त होती रहने वाली इस प्रवृत्ति ने जगत् को अंधा बना दिया है। > आश्चर्य है कि अनंत दुःख से भरी, सदा मृत्यु के साथ चलने वाली और बोध से पूरी त...

अध्याय ३.११३, श्लोक ५१–५९

योगवशिष्ट ३.११३.५१–५९ (अवास्तविक मानसिक प्रवृत्ति साधारण धारणा को पूरी तरह विकृत कर देती है) श्रीवसिष्ठ उवाच। संध्यादिषु च कालेषु लोष्टपाषाणभित्तयः। अस्याः प्रसादात्दृश्यन्ते सर्पाजगरदृष्टिभिः ॥ ५१॥ एकोऽपि द्वितयोदेति यथा द्विशशिदर्शने। दूरमभ्याशतां याति स्वप्ने स्वमरणं यथा ॥ ५२॥ आदीर्घं क्षणतामेति कालस्येष्टा यथा निशा। क्षणो वर्षमिवाभाति कान्ताविरहिणामिव ॥ ५३॥ न तदस्तीह यन्नाम न करोतीयमुद्धता। अस्यास्त्वकिंचनायास्तु शक्ततां पश्य राघव ॥ ५४॥ संरोधयेत्प्रयत्नेन संविदेवाशु संविदम्। सरित्स्रोतोनिरोधेन शुष्यत्येषा मनोनदी ॥ ५५॥ श्रीराम उवाच। अविद्यमानयैवेदं पेलवांग्या सुतुच्छया। मिथ्याभावनया नाम चित्रमन्धीकृतं जगत् ॥ ५६॥ अरूपया निराकृत्या चारुचेतनहीनया। असत्येवाप्यनश्यन्त्या चित्रमन्धीकृतं जगत् ॥ ५७॥ आलोकेन विनश्यन्त्या स्फुरन्त्या तमसोन्तरे। कौशिकेक्षणधर्मिण्या चित्रमन्धीकृतं जगत् ॥ ५८॥ कुकर्मैकान्तकारिण्या न सहन्त्या विलोकनम्। देहमप्यविजानन्त्या चित्रमन्धीकृतं जगत् ॥ ५९॥ महर्षि वशिष्ठ बोले: ३.११३.५१–५५ > संध्या आदि समयों में मिट्टी के ढेले, पत्थर और दीवारें इस प्रवृत्ति की शक्ति से साँप...

अध्याय ३.११३, श्लोक ३९–५०

योगवशिष्ट ३.११३.३९–५० (मानसिक कल्पना या वासना का अपना कोई ठोस अस्तित्व नहीं है) श्रीवसिष्ठ उवाच। तरङ्गोत्पलमालेव कल्पनामात्रवर्णिता। मृणालीव बहुच्छिद्रा पङ्कप्रौढा जलात्मिका ॥ ३९॥ जनेन दृश्यते वृद्धितत्परा नच वर्धते। विषास्वाद इवापातमधुराऽन्ते सुदारुणा ॥ ४०॥ नष्टा दीपशिखेवैषा न जाने क्वेव गच्छति। मिहिकेवाग्रदृष्टापि गृह्यमाणा न किंचन ॥ ४१॥ पांसुमुष्टिरिवाकीर्य प्रेक्षिता पारमाणवी। आकाशनीलिमेवैषा निर्निमित्तैव दृश्यते ॥ ४२॥ द्विचन्द्रमोहवज्जाता स्वप्नवद्विहितभ्रमा। यथा नौयायिनः स्थाणुस्पन्दस्तद्वदिहोत्थिता ॥ ४३॥ अनयोपहते चित्ते दीर्घकालमिवाकुलैः। जनैराकल्प्यते दीर्घसंसारस्वप्नविभ्रमः ॥ ४४॥ अनयोपहते स्वस्मिंश्चित्राश्चेतसि विभ्रमाः। उत्पद्यन्ते विनश्यन्ति तरङ्गास्तोयधेरिव ॥ ४५॥ मनोज्ञमपि सत्यं च दृश्यते सदसत्तया। अमनोज्ञमसत्यं च दृश्यते सत्तयाप्यसत् ॥ ४६॥ पदार्थरथमारूढा भावनैषा बलान्विता। आक्रामति मनः क्षिप्रं विहगं वागुरा यथा ॥ ४७॥ करुणास्यन्दमानाक्षी स्रवन्क्षीरलवस्तनी। भवत्युल्लसितानन्दं जननी गृहिणी यथा ॥ ४८॥ विषीकरोति निःस्यन्दसंतर्पितजगत्त्रयम्। सुधार्द्रार्द्रमपि क्षिप्रं प्रवृद्धं...

अध्याय ३.११३, श्लोक ३१–३८

योगवशिष्ट ३.११३.३१–३८ (मानसिक प्रवृत्ति या कल्पना जो कर्तृत्व की भावना और संसार का आभास उत्पन्न करती है, स्वयं अवास्तविक है) श्रीवसिष्ठ उवाच। अस्याः स्वसत्तामात्रेण कर्तृतैतासु वृत्तिषु। दीपस्यालोककार्याणां यथा तद्वन्न वस्तुतः ॥ ३१॥ सनितम्बस्तनी चित्रे न स्त्री स्त्रीधर्मिणी यथा। तथैवाकारचिन्तेयं कर्तुं योग्या न किंचन ॥ ३२॥ मनोराज्यमिवाकारभासुरा सत्यवर्जिता। सहस्रशतशाखापि न किंचित्परमार्थतः ॥ ३३॥ अरण्ये मृगतृष्णेव मिथ्यैवाडम्बरान्विता। विडम्बयति तान्मुग्धमृगानेव न मानुषान् ॥ ३४॥ फेनमालेव संजातध्वस्ता विच्छेदवर्जिता। जडेव चञ्चलाकारा गृह्यमाणा न किंचन ॥ ३५॥ अटत्युड्डामराकारा रजःप्रसरधूसरा। बलात्कल्पान्तवात्येव स्वाक्रान्तभुवनान्तरा ॥ ३६॥ धूमालीवाङ्गसंलग्ना दाहखेदप्रदायिनी। गर्भीकृतरसाक्रम्य जगन्ति परिवर्तते ॥ ३७॥ धारा जलधरस्येव सुदीर्घा जलनिर्मिता। असारसंसारदृढा रज्जुस्तृणगणैरिव ॥ ३८॥ महर्षि वशिष्ठ आगे बोले: ३.११३.३१–३८ > अपने मात्र होने से ही यह मानसिक प्रवृत्ति इन सब मानसिक क्रियाओं की कर्ता लगती है, ठीक जैसे दीपक अपनी रोशनी से होने वाले कामों का कर्ता लगता है; पर वास्तव में वह कर्त...